पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । निघ्नन्निघ्नन्निदानीं द्युजनमिह महाकाल एकोऽस्मि नान्यः कन्याद्रेदैत्यमित्थं प्रमथपरिभवे मृद्गती त्रायतां वः ॥ ३५ ॥ इत्थं प्रमथानां पार्षदानां परिभवे सति दैत्यं मृद्गती मर्दयन्ती अद्रेः कन्या पार्वती वस्त्रायताम् । इत्थं कथम् । हे नन्दिन् , संप्रहारे युद्धे तव प्रहारो मे आनन्ददः सुखप्रदः । यतो मुरजमृदुर्मृदङ्गध्वनिकोमलः । हे गज- मुख गणेश, रोम्णि रोमतुल्ये दन्ते रुग्णे भग्ने सति किं व्रजसि । यतस्त्वं प- लायितोऽपि वशीभूत एव । लम्बोदरत्वाद्दूरं पलायनं कर्तुमशक्त इति भावः। द्युजनमिन्द्राद्यं निघ्नन्निघ्नन्नितरां मारयन्नहमेवैको महाकालः । अन्यो नास्ति ॥ वज्रं मज्ञो मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो दण्डं तुण्डात्कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः । प्रापन्यत्पादपिष्टे द्विषि महिषवपुष्यङ्गलग्नानि भूयो- ऽप्यायूंषीवायुधानि द्युवसतय इति स्तादुमा सा श्रिये वः ३६ महिषवपुषि द्विषि यत्पादपिष्टे सति युवसतय इन्द्रादयोऽङ्गलग्नान्यायु- धान्यायूंषीव भूयोऽपीति प्रापन्प्राप्तवन्तः सा उमा वः श्रियेऽस्तु । पूर्वं महि- षयुद्धे सर्वदेवायुधानि तच्छरीरे ममान्यासन् , अधुना देव्या महिषे पिष्टे पुनरपि तैः स्वायुधानि प्राप्तानि तद्वन्महिषविनाशादायूंष्यपि लब्धानि, अन्य- था तु जीवनं संदिग्धमेवासीदिति भावः । इति कथम् । मज्ञः मज्जधातोः सकाशादिन्द्रो वज्रं प्रापत् । अरि चक्रं हरिस्तस्योरसः प्रापत् । ईशः शिवः शिरस्तः शूलमापत् । कृतान्तो यमस्तुण्डान्मुखाद्दण्डं प्रापत् । अर्थाधिनाथः कुबेरोऽस्थितस्त्वरितगतिशालिनी गदां प्रापत् ॥ दृष्टावासक्तदृष्टिः 1प्रथममिव तथा संमुखीनाभिमुख्ये स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । उद्युक्ता नर्मकर्मण्यवतु 2पशुपतौ पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः ।। ३७ ॥ पशुपतौ महिषे सर्वमीषदाभासमानं कुर्वाणा पार्वती वोऽवतु रक्षतु । १. 'कृतमखविकृतिः'. २. 'पशुपतेः'.