पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभार्गः । ८५ रन्तरनिचितम, अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसंतानतन्तुभिरिव निर्मितेन मानस- सरोजलक्षालितशुचिना दुकूलवस्कले नाद्वितीयेनेव जराजालकेन संच्छादितम, आसन्नव- तिना मन्दा किनी सलिल पूर्णेन त्रिदण्डोपविष्टेन रैफाटिककमण्डलुना विकचपुण्डरीकराशि मिव राजहंसेनोपशोभमानम, स्यैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः प्रशमेन तु- पाररश्मेनिर्मलतयाम्बरतलस्य संविभागमिव कुर्वाणम, वैनतेयमिव स्वप्रभावोपात्तद्विजाधि- पत्यम्, कमलासनमिवाश्रमगुरुम्, जरच्चन्दनतरुमिव भुजंगनिर्मोकधवलजटाकुलम्, प्रश- स्तवीरणपतिमिव प्रलम्बैकर्णवालम्, बृहस्पतिमिवाजन्मसंवर्धितकचम दिवस मिवोद्यदर्कवि- म्वभास्वरमुखम् शरत्कालमिव क्षीणवर्षम्, शान्तनुमिव प्रियसत्यव्रतम्, अम्बिकाकरतल - १ ७ E , । शेषः । जरत्कल्पतरुमिव वृद्धमन्दारमिवेत्युत्प्रेक्षा | अमलेनेति । अमलेन निर्मलेन दुकूलवल्कलेन । दुकूलेन सदृशं वल्कलमिति मध्यमपदलोपी रामासः । तेन संच्छादितमावृतम् । केनेव | अद्वितीयेनापूर्वेण जराजालकेनेव विस्रसासमूहे ने वेत्युत्प्रेक्षा | दुकूलवल्कलं विशिनष्टि - चन्द्रेति । चन्द्रांशुभिरिव शशिज्यो- त्स्नाभिरिवामृतफेनैरिव पीयूपडिण्डीररिव गुणानां विद्यातपश्चरणादीनां संतानाः समूहात एव तन्तवः सृः त्राणि तैरिव निर्मितेन रचितेन । मानसेति । मानससरोजलवजलं तेन क्षालितं धौतमत एव शुचिना निर्मलेन । पुनस्तमेव मुनि विशिष्टि - स्फाटिककमण्डलुनोपशोभमानं विराजमानम् । अथ कमण्डलुं वि- शिनष्टि – आसनेति । आसन्नवर्तिना समीपस्थेन । मन्दाकिनीति | मन्दाकिनी गङ्गा तस्याः सलिलं तेन पूर्णेन भृतेन | त्रिदण्डेति । त्रिदण्डस्त्रिपादिका तन्त्रोपविष्टेन स्थापितेन । मुनेर्भवलीकृत विग्रहवत्त्व- वर्णनात्कमण्डलोश्च शुभ्रत्ववर्णनात्तदुपमानमाह-विकचेति | राजहंसेन विकच पुण्डरीक राशिमिव स्मित- सिताम्भोजसमूहमिवेत्युत्प्रेक्षा | पुनर्मुनिः प्रकारान्तरेण विशिष्टि - स्थैर्येति । स्थैर्येण स्थिरतयाचलानां पर्वतानाम्, गाम्भीर्येण गाम्भीर्यगुणेन सागराणां समुद्राणाम्, तेजसा प्रतापेन सवितुः सूर्यस्य, प्रशमेनोपश- मेन तुपाररश्मेश्चन्द्रस्य, निर्मलतया स्वच्छतयाम्बरलय संविभागमिच स्वकीयवस्तुनः परेभ्यः किंचिद्वि भज्य प्रदानमिव कुर्वाणं विदधानम् | अचलादीनां स्थैर्यादयो गुणा अनेनैव संविभागीकृताः सन्तीति भावः । अथान्यसादृश्यद्वारा तमेव विशेषयन्नाह -चैनतेयमिति । वैनतेयो गरुडस्तद्वदिव स्वरयात्मीयस्य यः प्रभावो माहात्म्यं तेनोपात्तमङ्गीकृतं द्विजेषु ब्राह्मणेष्वाधिपत्यं प्रभुत्वं येन स तम् । पक्षे द्विजेषु पत्रत्रिष्वाधिपत्यं मुख्यत्वं येनेति विग्रहः | कमलेति । कमलासनो ब्रह्मा तमिवाश्रमो मुनिस्थानं तत्र गुरुं श्रेष्ठम् | पक्ष आश्रमा ब्रह्मचारिप्रभृतयस्तेषां गुरुं प्रवर्तकम् | वर्णाश्रमाश्च ब्रह्मणैच प्रवर्तिताः । जरदिति । पुरातने परिमलविशेषा- धिक्याज्जर द्विशिष्टचन्दनतरुग्रहणम् । तत्रैव भुजंगवाहुल्यंम् । अतएव भुजंगस्य यो निर्माक: कबुकस्तद्वद्ध- वला या जटा तयाकुलं व्याप्तम् । पक्षे निर्मोक एव जटेति विग्रहः । शेषं पूर्ववत् । प्रशस्तेति । प्रशस्तः सर्वलक्षणोपेतो वारणपतिर्गजनायकस्तद्वदिव प्रलम्वाः कर्णयोर्बालाः केशा यस्येति विग्रहः | पक्षे प्रलम्बौल- म्बमानौ कर्णौ श्रवणौ वालश्च वालधिर्यस्मिन् | बृहस्पतीति । वृहस्पतिः सुरगुरुस्तमिव आजन्म जन्म-