पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ कादम्बरी । तया कालान्तरभुवः स्नेहरसस्यानभिज्ञो जन्मसहभुवा भयेनैव केवलमभिभूयमानः किंचि- दुपजाताभ्यां पक्षाभ्यामीपत्कृतावष्टम्भो लुठन्नितस्ततः कृतान्तमुखकुहरादिव विनिर्गतमा- स्मानं मन्यमानो नातिदूरवर्तिनः शबरसुन्दरीकर्णपूररचनोपयुक्तपल्लवस्य संकर्षणपटनीले- कछाययोपहसत इव गदाधरदेहच्छविम्, अच्छैः कालिन्दीजलच्छेदैरिव विरचितच्छदस्य, वनकरिमंदोपसिक्तकिसलयस्य, विन्ध्याटबीकेशपाशश्रियमुहतः, दिवाप्यन्धकारितशाखा- न्तरस्य, अप्रविष्टसूर्यकिरणमतिगहनमपरस्येव पितुरुत्सङ्गमतिमहतस्तमालविटपिनो मूलदे- शमविशम् । अवतीर्य च स तेन समयेन क्षितितलविंश्रकीर्णान्संहृत्य शुशिशूनेकलतापाशसंयताना- बध्य पर्णपुटेऽतित्वरितगमनः सेनापतिगतेनैव वर्मना दिशमगच्छत् । मां तु लब्धजीवि- साशं प्रत्यमपितृमरणशोकशुष्कहृदयमतिदूरपातीदायासितशरीरं संत्रासाता सर्वाङ्गोपता- स्मिन्बुद्धपितुमरणे मरणमेवोचितमिति योग्यता तस्मिनपि काले समये सति बालतयार्भकत्वेन कालान्तरेऽप्रवुद्ध- वयोवस्था विशेपे शयनासनभोजनादियु यः स्नेहस्तद्विपयको रसस्तस्यानभिज्ञस्त दाता । किं क्रियमाणाः। जन्मे- ति । जन्मसहभुवा उत्पत्तिसमयादारभ्य समुत्पनेन भयेनैव भियैव केवलं सर्वतोभिभूयमानः पीयमानः । पुनः कीदृक् । किंचिदिति । किंचिदीपदुपजाताभ्यां निष्पन्नाभ्यां पक्षाभ्यां छदाभ्यामीपत्कृतोऽवष्टम्भ आ- धार आश्रयो यस्य स तथा । किं कुर्वन् । लुठन्नितस्ततो भूमौ पतन् । कृतान्तेति । कृतान्तो यमस्तस्य मुखमिव मुखं यस्यैवंभूतात्कुहरात्सुपिराद्विनिर्गतं निःमतमात्मानं स्वं मन्यमानो ज्ञायमानः । अथ तमालं वि. शेपयन्नाह नातीति । न प्रतिषेधे । अतिदूरवर्ती दविष्ठप्रदेशस्थायी तस्य । शवरति । शवराणां भिल्लानां सुन्दर्यः स्त्रियस्तासां कर्णपूराणि कर्णाभरणानि तेषां रचना विनिर्मितिस्तत्रोपयुक्ताः सोपयोगिनः पल्लवा यस्य स तथा तस्य । संकर्षणेति ।संकर्षणो बलभद्रः । 'संकर्षणः प्रियमधुर्वलरौहिणेयौ' इति कोशः । तस्य पटो वलं तस्य नीला छाया कान्तिस्तया गदाधरो विष्णुस्तस्य देह्च्छवि शरीरदीप्तिमुपहसत इवोपहासं कुर्वत इव । अच्छैरिति । अच्छनिमलैः कालिन्दी यमुना तस्या जलं पानीयं तेषां छेदाः खण्डानि तैरिब विरचितानि निर्मितानि छदानि पत्राणि' यस्य स तथा तस्य । बलेति । वन करिणामर गय हस्तिनां मदा दाना- नि तैरुप सिक्तानि सिञ्चितानि किसलयानि यग्य स तथा तस्य । विन्ध्येति । विन्ध्याटवी दण्डकारण्यं तस्याः केशपाशः केशकलापस्तस्य श्रियं शोभामुत्प्रावल्येन वहतो दक्षतः । दिवापीति । दिवापि दिवसेऽपि अन्धकारितं जातान्धकारं शाखान्तरं शालान्तरं यस्य स तथा तम्य । कीदृशं मूलदशम् । अप्रविष्टेति । अप्रविष्टा नान्तर्गताः सूर्यस्य रवेः किरणा यस्मिन्स तम् । अतीति । अतिशयेन गहनम पर्याप्तावकाशम् । कस्येव अपरस्येव भित्रस्येव पितुरभयदातुरुत्सझं कोडम् । अवेति । अवतीर्योत्तीर्य स शवरस्तेन समयेनेति तत्कालेन क्षितितले पृथ्वीतले विप्रकीर्णानितस्ततः पर्यस्ताञ्शुकशिशुन्कीरपाकान्संहलेकीकृत्य । कीदृशान् । एकाद्वितीया या लता वली ताक्षणो यः पाशो TTTTT