पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । लिकापरिगतकण्ठैमहावरांहदंष्ट्राप्रहारजर्जरैरल्पकायैरपि महाशक्तिस्वादनुपजातकेसरैरिव केसरिकिशोरकैगवधूवैधव्यदीक्षादानदक्षैरनेकवण: श्वभिरतिप्रमाणाभिश्च केसरिणामभयश- दानयाचनार्थमागताभिः सिंहीभिरिव कौलेयककुटुम्बिनीभिरनुगम्यमानम्, कैर्श्विगृहीतच- मरयालगजदन्तभारैः कैश्चिदच्छिद्रपर्णबद्धमधुपुटैः कैश्चिन्मृगपतिभिरिव गंजकुम्भमुक्ताफल- निकरसनाथपाणिभिः कैश्चिद्यातुधानैरिव गृहीतपिर्शितभारैः कैश्चित्प्रमथैरिव केसरिकृत्तिधा- रिभिः कैश्चित्क्षपणकैरिव मयूरपिच्छेधारिभिः कैश्चिच्छिशुभिरिव काकपक्षधरैः कैश्चित्कु. ष्णचरितमिव दर्शयद्भिः समुत्खात विधृतगजदन्तैः कैश्चिजलदागमदिवसैरिव जलधरच्छा- यामलिनाम्बरैरनेकवृत्तान्तैः शबरवृन्दैः परिवृतम्, अरण्य मिव सखड्गधेनुकम', अभिनवजल- धरमिब मयूरपिच्छचित्रचापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम, अरुणानुज मिवोद्ध- कपदकास्तषां मालिका मालास्ताभिः परिगतः स हितः कण्ठो येषां ते तथा तैः । महेति । महावराहा वनको. डास्तेषां दंष्ट्रा दाढास्तासां प्रहारा अभिघातास्तै जरैः शिथिलाः । अल्पेति । अल्पकायैः स्वल्पशरीरैरपि महाशक्तित्वात्प्रौढपराक्रमलादनुपजातकेसरैरनुत्पत्रसटैः केसरिकिशोर करिव सिंहशावकैरिव । मृगेति । मृगव- धूनां हरिणपत्नीनां यद्वैधव्यदीक्षादानं विगतभर्तृकात्वबतादानं तत्र दक्षनिपुणः । अनेकेति । अनेके बहवो वर्णा रक्तपीतादयो येपु ते तथा तैः । पुनः काभिः । अतीति । अतिप्रमाणाभिः प्रचण्डाभिः केसरिणां सिंहा- नामभयप्रदानं जीवरक्षणं तस्य याचना प्रार्थना तदर्श आगताभिः प्राप्ताभिः सिंहीभिरिव कौलेयककुटु- म्विनीभिः श्वानपत्नीभिश्च सहेति भावः । शबरेति । शबरवृन्दैभिल्लसमूहैः परिवृतमावेष्टितम् । कीदृशैः । कैश्चिदिति । गृहीताः स्वीकृताश्चमराणां गवयानां बालाः केशा गजानां दन्ताश्च तेषां भारः समूहो यैस्ते तथा तैः । कैश्चिदिति । अच्छिद्रपर्णनिविडपत्रैद्धानि मधुनः पुटानि यैस्ते तथा तैः । कैश्चिदिति । मृगपतिभिरिव सिंहेरिव गजानां हस्तिनां कुम्भाः शिरःपिण्डाः तेषां मुक्ताफलानि मौक्तिकानि तेषां निकरः समूहस्तेन सनाथः सहितः पाणिर्येषां ते तथा तैरित्यभङ्गलेपः । कैश्चिदिति । यातुधानैरिव राक्षसैरिव गृहीतः पिशितस्य मांसस्य भारो यैस्ते तथा तैः । अत्राप्यभङ्गश्लपः । कैश्चिदिति । प्रमथैरिव पार्षदै रिव केसरिणा सिंहानां कृत्तयश्चर्माणि धरन्तीत्येवंशीलैस्तद्धारिभिः । कैश्चिदिति । क्षपणकैरिव दिगम्बरै रिव मयूराणां वर्हिणां पिच्छानि छदानि धरन्तीत्येवंशीला धारिणस्तैः । भिल्ला अपि हतमयूरपिच्छधारिणो भवन्तीति श्लेषः । कैश्चि- दिति । शिशुभिरिव बालकरिव काकपक्षः शिखण्डकरतद्वारिभिः । भिल्लपक्षे काकानां मकृत्यजानां पक्षाइछ- दाः तद्धारिभिः । कैश्चिदिति । कृष्णचरितं विष्णुविजृम्भितं दर्शयद्भिः प्रकाशयद्भिरिव पूर्व समुत्खाताः सम्यक्प्रकारेणोत्पाटिताः पश्चाद्विशेषेण धृता गजदन्ता यैस्ते तथा तैः । कृष्णेनापि वाल्ये गजननक्षण इत्थमेवा- चरितमिति साम्यम् । कैश्चिदिति । जलदस्य मेघस्यागमो येष्वेवंविधैर्दिवसैर्वासरैरिव जलधरो मेघस्तस्य छायातपाभावस्तद्वन्मलिनानि कश्मलान्यम्बराणि वस्त्राणि येषां ते तथा तैः । पक्षे जलधरच्छायया मलिन- मम्बरं व्योम येष्विति विग्रहः । अनेकेति । अनेके बहयो वृत्तान्ताश्चरित्राणि येषां ते तथा नैः । अरण्येति।