पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । ६०४ परित्यज्यतां त्मनापारयन्तीं श्रोत्रहृदयग्राहिणानुभूतपूर्वेण स्वरेणानन्दयन्नवादीत्—'भीरु, भयम् । प्रत्युज्जीवितोऽस्मि तवैवामुनाकण्ठग्रहेण | त्वं खल्वमृतसंभवादप्सरसां कुलादुत्पन्ना | " किं न स्मरसि तन्मे वचनमिदम् | तत्तेजोमयं वपुः स्वत एवाविनाशि विशेषतोऽमुना काद- म्बरीकरस्पर्शेनाप्यायितमिति । तदेतावन्त्येव दिनानि पाणिना ते स्पृश्यमानोऽपि न यत्प्र- त्युज्जीवितोऽस्मि तच्छा पदोषात् । अद्य स तु मे द्वितीयवारं त्वदर्थमेवानुभूतदुःसहमदनज्वर- दाहवेदनापर मदुःखस्य व्यपगतः शापः | परित्यक्ता सा मया त्वद्विरहदुःखदायिनी शानुषी शूद्रकाख्या तनुः । एषापि च तवास्यां रुचिरुत्पन्नेति त्वत्प्रीत्या प्रतिपन्ना प्रतिपालिता च । तदयं लोकश्चन्द्रलोकश्च ते द्वावण्यवुना चरणतलप्रतिबद्धौ । अपि च प्रियसख्या अपि ते महाश्वेतायाः प्रियतमो मयैव सह विगतशापः संजातः । इत्यभिधत्येव चन्द्रापीडशरीरान्त- रितवपुषि चन्द्रमसि चन्द्रलोकावस्थानलमममृतपरिमलमेव केवलमधिकमुहून्, अङ्गैरन्य- तमस्तादृशेनैव वेषेण यादृशेनैव महाश्वेतौत्कण्ठ्योपरतस्तथैव कण्ठेनैकावलीं धारयन्, तथैवा- कल्पनिःसह्रैरङ्गैस्तथैवापाण्डुक्षामक पोलवाहिना मुखेनाम्बरतलावतरन्नदृश्यत कपिखलक- रावलम्बी पुण्डरीकः । १ दृष्ट्वा च तं दूरत एवोन्मुक्तचन्द्रापीडवक्षःस्थला कादम्बरी स्वयमेव धावित्वा देत्तकण्ठग्रह- हमाना न मोक्तुं व्यक्तुं न ग्रहीतुमादातुमात्मना स्वेनापारयन्ती मप्रभवतीं श्रोत्रे कर्णे हृदयं भुजान्तरं ताभ्यां गृह्यत इत्येवंशीलेनानुभूतपूर्वेणाकर्णितपूर्वेण स्वरेण शब्देनानन्दयन्प्रमोदयन्नवादीदवोचत् । किं तदित्याह- भीर्विति । हे भीरु हे कातरे, भयं त्रासं परित्यज्यतां दूरीक्रियताम् । तवैवामुना कण्ठग्रहेणाहं प्रत्युज्जी- वितः पुनर्जीवनं प्रापितोऽस्मि । खल्विति निश्चये | त्वमभूतसंभवात्पीयूषोत्पन्नादप्सरसामुर्वशीप्रभृतीनां कुलादभिजनादुत्पन्ना संजाता । इदं तन्मे मम वचनं किं न स्मरसि न स्मृतिगोचरीकरोषि | इदं किमित्या- शयेनाह - तदिति । तच्चन्द्रापीडवपुस्तेजोमयं ज्योतिर्मयं स्वत एव स्वभावत एवाविनाश्यविनश्वरम् । विशेषतोऽमुना कादम्बरीकर स्पर्शेनाप्यायितुं शीतलीकृतमिति । तत्तस्मात्कारणादेतावन्त्येव दिनानि ते तव पाणिना करेण स्पृश्यमानोऽप्याश्लिष्यमानोऽपि स्पर्शमानोऽपि यन्न प्रत्युज्जीवितोऽस्मि तच्छापदोषादेवेति मन्तव्यम् । अद्य त्वस्मिनहनि द्वितीयवारं त्वदर्थमेवानुभूतं दुःसह उत्कटो यो मदनज्वरदाहस्तस्य वेदना पीडा तस्याः परमदुःखं येनैवंभूतस्य मे मम स शापो व्यपगतो नाशं गतो दूरं गतः । त्वद्विरहदुःखदायिनी मानुषी शूद्रकाख्या तनुः सा मया परित्यक्तोज्झिता । तव भवत्या अस्यां चन्द्रापीडतनौ रुचिरुत्पन्ना | अत एषा मया प्रतिपन्नाङ्गीकृता प्रतिपालिता च रक्षिता च । तदिति हेत्वर्थे । अयं लोको मर्त्यलोकश्चन्द्रलोकश्च, द्वावपि लोकावधुना सांप्रतं ते तव चरणतलप्रतिबद्धौ पादतलाश्रितो | अपि चान्यच ते तव प्रियसख्या वल्ल- भवयस्या अपि महाश्वेतायाः प्रियतमो वल्लभो मयैव चन्द्रापीडेनैव सह विगतशापः संजात इत्यभिदधत्येव कथ. यत्येव चन्द्र पीडशरीरेण न्तरितं व्यवहितं वपुर्यस्य स तस्मिंश्चन्द्रमसि सति चन्द्रलोके यraस्थ नंग ते ल