पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । नामापरः कोऽप्यन्त्रास्ते | यत्तस्मै रोचते तत्करोति । नासौ कस्यचिदप्यायत्तः । एवं च परा- धीनवृत्तौ सर्वस्मिन्न किं वास्मामिलब्धम् । वत्सस्यातिदुर्लभो जन्मोत्सवः संभावितः । अ- तस्य मुखमवलोकितम् । उत्तानशयस्योचुम्ब्य चरणावुत्तमाङ्गे कृतौ । जानुसंचारिणो रेणुधूसरशरीरस्याङ्के लतः स्पर्शसुखमनुभूतम् । अव्यक्त मनोहारीणि प्रथमजल्पितानि श्रोत्रे कृतानि विचेष्टमानस्य बालचाटवो दृष्टाः | गृहीतविद्यस्य गुणवत्तयानन्दितं हृद्- यम् । उपारूढयौवनस्यामानुषी रूपशोभा शक्तिश्च प्रत्यक्षीकृता । अभिषिक्तस्य यौवराज्ये शिरः समानातम् | दिग्विजयागतस्य प्रणमतः परिष्वक्तान्यङ्गानि । एतावदेव मनोरथशतवा- ञ्छितस्य वस्तुतो न संपन्नं यद्वधूसमेतस्य निजपदे प्रतिष्ठां कृत्वा तपोवने न गँतम् । सर्वा भिवाञ्छित प्राप्तिस्तु महतः पुण्यराशेः फलम् | अपरमपि किं वृत्तं वत्सस्यैतदद्यापि न परि- स्फुटं केनचिदेव न कथितम् | ऐत्तावत्तु मयाव्यक्तमेव तदैव परिजनात्कथयतः कर्णे कृतम् । यथास्मत्प्रहितैर्लेखहारिभिः सहापरो वत्सस्य मे बालसेवकस्त्वरितकनामायातः । स वेत्ति । । तमना गृहीतमनुपार्जितं न लभ्यत एव न प्राप्यत एव । नामेति कोमलामन्त्रणे । नाम निश्चयेन | विधिविधाता ब्रह्मा अपरो द्वितीयः कोऽप्यत्रास्ते । यत्तस्मै विधये प्रजापतये रोचते रुचिविषयीभवति तत्करोति विघाति न निष्पादयति । नासौ विधिव्रह्मा कस्यचिदप्यायत्तः पराधीनः स्वायत्त एव । एवं च सर्वस्मिजने सर्वस्मिल्लो के पराधीनवृत्तौ सत्यामस्माभिः किं न प्राप्तं किं न लब्धम् | अपि तु सर्वमेव सर्वस्वमेव प्राप्तं लब्धम् । एतदेव प्रदर्शयन्नाह – वत्सस्येति । वत्सस्य पुत्रस्य सुतस्य चन्द्रापीडस्यातिदुर्लभोऽतिदुष्प्रापो जन्मोत्सव उत्पत्ति- महः संभावितो विह्नितो निष्पादितः । अङ्कगतस्य मुखमवलोकितं वीक्षिप्तं निरीक्षितम् । उत्तानशयस्योर्ध्वानन उच्चास्यशयितस्योच्चुम्ब्योच्चुम्बनं कृत्वा चुम्बनं विधाय पादौ चरणावुत्तमाङ्गे शिरसि कृतौ विहितौ निष्पादितौ जानुना नलकीलेन संचारिणो गमनशीलस्य गमनस्वभावस्य, अत एव रेणुधूसरस्य, धूलिमलिनस्य धूलिकर्द- मितस्याङ्के क्रोड उत्सङ्गे लुलतो लुठतः स्पर्शसुखं संश्लेषसातमालिङ्ग नसुखमनुभूतम् । अव्यक्तेनाप्रकटत्वेनास्फुट- त्वेन मनोहारीणि चारूणि प्रथमज्जल्पितान्याद्यभाषितानि पूर्ववाक्यानि श्रोत्रे कर्णे कृतानि धारितानि | विचे- टमानस्य क्रीडां कुर्वाणस्य बालचाटवः शिशुचाटूनि दृष्टा दृष्टीविषयीकृताः । 'चटु चाटु प्रियप्रायम्' इति हैमः । गृहीतविद्यस्य स्वीकृतकलाभ्यासस्य गुणवत्तया गुणस्वभावतया हृदयमानन्दितं प्रमुदितं हर्षितम् । उपारूढयौ- वनस्य प्राप्ततारुण्यस्य प्राप्तयौवनस्यामानुषी मनुष्येष्वसंभाविनी रूपशोभा सौन्दर्यश्रीर्मनोहरथी: शक्तिश्च तद- नुयायि सामर्थ्य च प्रत्यक्षीकृता साक्षात्प्रत्यक्षादवलोकिता निरीक्षिता | यौवराज्ये कौमार्येऽभिषित्तास्याभिषे कं कारितस्य शिरो मस्तकं समाप्रातं चुम्बितम् | दिशामाशां ककुभां विजय आत्मसात्करणमात्माधीनमात्म- सात्तस्मादागतस्य प्रणमतः प्रणामं कुर्वतो नमस्कारं क्रियमाणस्याङ्गानि परिष्वक्तान्यालिङ्गितानि संश्लेषितानि । परमेतावदेवैतदेव मनोरथशतेनाभिलाषशतेन वाञ्छितस्य वस्तुनो न संपन्नं न जातम् । किं तदित्याह - य दिति । वधूसमेतस्यास्य निजपदे खपदे प्रतिष्ठां स्थापनां कृत्वा तपोवने मुनिजनाश्रमे न गतं न प्राप्तम् । सर्व