पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । । । । तिर्यगाभुनचन्द्रापीडमुखनिहितनेखिलस्तब्धदृष्टि निश्चेष्टायां महाश्वेतायाम् 'आः पापे दुष्ट- तापसि, किमिदं त्वया कृतम् । अँपकृताखिलजगत्पीडस्य तारापीडस्य कुलमुत्सारितम् । अनाथीकृताः प्रजाः सहास्माभिः | अन्नाः पन्थानो गुणानाम् । अर्गलिताः ककुभोऽर्थिलो- कस्य । कस्य वदनमीतां लक्ष्मीः | कोऽवलम्वनं भवतु भूमेः । कं सेवन्तां सेवकाः । त्वया विना संप्रति व्यसनमेव सेवा संवृत्ता | वृत्तं समानशीलत्वम् | अस्तमिता च परिजनश्लाघा | लघुकृतो भृत्यादरः । दूरं गतानि प्रियालपितानि | समाप्ताः परित्यागकथाः । त्वं कथं कथा- वशेषीभूतोऽसि । भूतपूर्वाः कमुपयान्तु 'संप्रति प्रजाः । के संप्रति साधूनां समाधानम् । अधुना धूंधेरे त्वयि विपन्ने कः समुद्रहतु देवेन तारापीडेनोढां धुरम् | धीरस्यापि ते कथं कातरस्येव शुचा भिन्नं हृदयम् । दयालोरपि ते केयमधेशी जाता निर्दयतास्मसु । देव, प्रसीद सकृदण्याज्ञापय | देहि भक्तजनस्याभ्यर्थनाम् । प्रतिपद्यस्व प्राणान् । न त्वया विना क्षणमपि प्राणिति पुत्रवत्सलो देवस्तारापीडः, न देवी विलासवती, नाप्यार्यः शुकनासः, न मनोरमा, न राजानः, नापि प्रजाः | परित्यज्य च सर्वानेकाकी क्व प्रस्थितोऽसि । कुतस्त- १६ ५३२ इति । तिर्यगाभुना वक्रा चन्द्रापीडमुखे निहिता स्थापिता निखिला समभा स्तब्धा निश्चला दृग्यया सा तस्यामेवं विद्यायां निश्चेष्टायां निर्गतशरीव्यापारायां महाश्वेतायां सत्याम्, इति परिजने सेवकजन आरटति पूत्कुर्वति सति । इतिद्योत्यमाह -- आः पापे इति । आः इति खेदे | पापे पापकारिणि दुष्टतापसि, त्वया भवत्येदं किं कृतं किं विहितम् | अपकृता दूरीकृताखिलजगतः समग्र विश्वस्य पीडा येनैवंभूतस्य तारापीडस्य कुलं वंशं उत्सारितं उच्छेदितम् । दूरीकृतमिति यावत् । अस्माभिः सह प्रजाः प्रकृतयोऽनाथीकता विनायकीकृताः । वयमध्यना- थीभूता इत्यर्थः । गुणानां शौर्यादीनां पन्थानो मार्गा भग्ना भ्रंशं प्राप्ताः | अर्थिलोकस्य याचकजनस्य ककुभो दिशोऽर्गलिताः प्राप्तपरिधाः संजाताः । लक्ष्मीः पद्मा कस्य वदनमीक्षतां विलोकताम् | भूमेः पृथिव्याः को वाव लम्बनमालम्बनं भवतु। सेवकाः सपर्यांकारिणः कं पुमांसं सेवन्तामुपासन्ताम् । लया विना भवद्विना सेवा सपर्या संप्रति व्यसनमेव कष्टमेव संवृत्ता जाता । समानशीलत्वं सहशस्वभावत्वम् । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । वृत्तमतीतम् । 'वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिश्चले' इत्यमरः | परिजनस्य परिच्छदस्य श्लाघा प्रशंसास्तमि- तास्तं प्राप्ता | भृत्यानां किंकराणामादरः सन्मानप्रदानं लघुभूतः खल्पीभूतः । प्रियालपितानि मिष्टभापि- तानि दूरं गतानि दविष्ठदेशं प्राप्तानि । परित्यागकथाः दानकिंवदन्तीः समाप्ताः | विलयं गता इत्यर्थः । त्वमि ति । चन्द्रापीडः कथं केन प्रकारेण कथावशेपीभूतः कथा एवावशेषोऽवशिष्टा यस्मिन्नेवंभूतो जातोऽसि पूर्वं भूता भूतपूर्वाः संप्रति प्रजाः कमुपयान्तु कमाश्रयन्तु । क्व साधूनां सज्जनानां संप्रति समाधानं चित्तप्रमोदजन- कम् । अधुना धूर्धरे राज्यभारधरणक्षमे त्वयि भवति विपन्ने मृते देवेन तारापीडेनोढां धुरं कः समुद्रहतु को द- धातु | धीरस्यापि वीरस्यापि ते कथं कातरस्येव भीरोरिव शुचा शोकेन भिन्नं स्फुटितं हृदयं भुजान्तरम् । दया-