पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरर्भागः । ५०७ दुन्नमितपूर्वकायः शयनगत एवाहूय तं पिता चक्षुषा पिवन्निव प्रेम्णा परिष्वज्य गाढमिव सहसोताविरलैबाप्परयपर्याकुलाक्षोऽन्तःक्षोभावेगक्षिप्ताक्षरमवादीत – 'वत्स, पित्राहं दो- पेषु संभावित इत्येषा मनागपि मनसि वत्सेन दुःखासिका न कार्या | विनयाधानात्प्रभृति सम्यक्परीक्षितोऽस्यस्माभिः | परीक्ष्य च गुणगणैरेवाधिगम्यो राज्यभारस्त्वय्यारोपितो न तनयस्नेहादेव । रा॒ज्यं हि नामैतत्पृथ्वीभारेणैवातिदुरुद्वहम् महीभृत्संवाघतयैवातिसंकटम्, कुटिलनीतिप्रचारेणैवातिदुःसंचारम्, चतुःसमुद्रव्याप्त्यैवातिमहत्, महासाधनप्रसाध्यतयैवा- 'तिर्दुःसाध्यम्, अपर्यवसायकार्यत अजा लेनैवाति गहनम् उत्तुङ्गवंशप्रतिष्ठिततयैवातिदुरारो- हम्, अहितसहस्रोद्धरणेनैवातिदुरुद्धरम् अपि च समवृत्तितयैवातिविषमम्, अनेकती- थैंकल्पनचैव दुरवतारम्, कैंण्टकशोधनेनैव दुर्ब्रहम् अखिलप्रजापालन व्यवहारेणैव 'दुः- पालम्, नौविक्रान्ते नामहोत्साहे नाप्रियवादिनि नासत्यसंधे नीमाज्ञे नाविवेकिनि नाक- > , , , पूर्वकायः प्रथमशरीरभागो येन स शयनगत एव शय्यास्थित एवाहूयाह्वानं कृत्वा तं युवराजं पिता जनकश्चक्षुष नेत्रेण पिवन्निव | आदरेगावलोकनं पानमुच्यत इति भावः । प्रेम्णा प्रीत्या गाढमिव गाढसदृशं परिष्वज्यालि- जय सहसा झटित्युद्गत उत्पन्नो योऽविरलो निबिडो वाष्पोऽश्रु तस्य रयो वेगस्तेन पर्याकुले व्याप्ते अक्षिणी यस्य स तथा । अन्तश्चेतसि यः क्षोभस्तस्या वेगस्त्वरिस्तेन क्षिप्ताक्षरमविस्पष्टाक्षरं यथा स्यात्तथावादीदनवीत् । तदाह — वत्सेति । हे वत्स हे पुत्र, पित्रा जनकेनाहं दोपेष्यपराधेषु संभावितो गणित इत्येषा मनागपि किंचिदपि मनसि चित्ते वत्सेन दुःखमास्तेऽस्यामिति दुःखासिका चिन्ता न कार्या | विनयेति | विनयो गुरूणामभ्युत्थानादिस्तस्याधानं शिक्षणं तत्प्रभृति तद्दिनादारभ्य सम्यक्प्रकारेणास्माभिः परीक्षितोऽसि परीक्षा- विषयीकृतोऽसि । परीक्ष्य चेति । परीक्षां कृत्वैव च गुणा गाम्भीर्यादयस्तेषां गणाः समूहास्तैरेवाधिगभ्यः प्रापणीयो राजभारस्त्वय्यारोपितः, न तनयस्नेहादेव नाङ्गजप्रीतेर्गुणवत्त्वादेव त्वयि राज्यभार आरोपितोऽस्ति । न पुत्रस्नेहादेवेति भावः । अथ राज्यखरूपं निरूपयन्नाह - राज्यमिति । नामेति कोमलामन्त्रणे । हीति निश्चये । एतद्वाज्यमाधिपत्यं पृथ्वीभारेणैव वसुधावीवधेनैव अतिदुरुद्वहं दुःखेनोद्वोढुं शक्यम् । तथा महीभृतां राज्ञां संवाघतथा संघतयैवातिसंकटमतिसंबाधम् । तथा कुटिला वक्रा या नीती राजस्थितिस्तस्याः प्रचारे- णैव प्रसरणेनैव अतिदुःसंचरं दुःखेन संचरितुं शक्यम् । तथा चत्वारो वेदप्रमिता ये समुद्रा जलधयस्तेषु व्यायैव व्यापकतयैवातिमहदत्यायतम् । तथा महासाधनं महासैन्यं तेन प्रसाध्यतयैवातिदुःसाध्यम ति दुःखेन साधयितुं शक्यम्। तथापर्यवसानान्यनन्तानि कार्याणि कृत्यानि यत्रैवंभूतं तन्त्रजालं स्वराष्ट्रचिन्तासमूहं तेनैवातिगहन- मिति । 'निबिडं तन्त्रं स्वराष्ट्रचिन्ता स्यात्' इति हैमः । उत्तुङ्ग उच्चो यो वंशोऽन्वयस्तत्र प्रतिष्ठिततयैव प्रतिष्ठां प्राप्ततयैव दुःखेनारुह्यत इति दुरारोहम् । अहितानां शत्रूणां सहस्रं तस्योद्धरणेनैवोत्खननेनैव दुरुद्धरं दुःखेनो- द्धर्तुं शक्यम् | पुनः प्रकारान्तरेण प्रतिपादयन्नाह - अपि चेति । समाविषमा या वृत्तिर्वर्तनं तयैवातिवि- भाव द विकोषोक्ति अनेक य ● I