पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ कादम्बरी । दिग्भागान् अदत्तदिवसकर किरणप्रवेशतया दिवाप्यन्तर्निशीथिनीमिव बिभ्राणम्, चिरपरि - चितैरपि मेघोद्गमाशङ्कया मुहुर्मुहुरुन्मुक्तमधुरकेकारवैर्वन शिखण्डिभिरुत्कंधरैरवलोक्यमानं पदमिव जलदकालस्य, प्रतिपक्षमिव सर्वसंतापानाम् निजावासमिव जडिम्नः, निर्गममार्ग- मिव सुरभिमासस्य, आश्रयमिव मकरध्वजस्य, उत्कण्ठाविनोदस्थानमिव रते:, आस्पदमिव सर्वरमणीयानाम्, अनवरतर्वेलितसुर भिशीतलाच्छोद्सरस्तरंगमारुताभिवीजिताभ्यन्तरशि- लातलमन्यतमं तटलतामण्डपमद्राक्षीत् । दृष्ट्वा च तमतिचिरान्तरितदर्शनं भ्रातरमिव तनयमिव सुहृदमिव चानन्यदृष्टिर्विस्मृतनिमेषेण चक्षुषा विलोकयन्स्तम्भित ईंव, मूर्च्छयोन्मुच्यमान इवेन्द्रियैः, झॅगित्युन्मुक्ताङ्गः समुपविश्य भूमौ किमप्यन्तरात्मना स्मरन्निवानुध्यायन्निव निर्वि- कारवदनो गलितलोचनपयोधारासंतान स्तूष्णीमधोमुखस्तस्थौ । तैथावस्थितं तमवलोक्यास्मा- कमुदपादि चेतसि चिन्ता, येन केनचिदपहियन्त एव रसिकहृदया: परिणामधीरमतयोऽपि, किं पुनः कुतूहलास्पदे प्रथमे वयसि वर्तमानाः, तस्मान्नियतमियमस्येमामतिमनोहरां भूमि- मालोक्य भावयतो हृदयविकृतिरीदृशी जातेति । नँ चिराच तमेवमवदाम वयम् | दृष्टा कान्त्या सममेकपदे दशदिग्भागान्दशककुभां प्रदेशाननुलिम्पयन्तमिवानुलिम्पनं कुर्वन्तमिव । न दत्तो दिवस - करस्य सूर्यस्य किरणप्रवेशः करप्रवेशो येन तस्य भावरतत्ता तथा दिवापि दिवसेऽप्यन्तर्मध्ये निशीथिनी मिव रात्रिमिव विभ्राणं धारयन्तम् | 'निशा निशीथिनी रात्रिः' इति हैमः । चिरपरिचितैरिति । चिरपरिचित रपि चिरपरिशीलितैरपि मेघस्योद्गम उदयरत स्याशङ्कारेका तथा मुहुर्मुहुर्वारंवार मुन्मुक्तो मधुरो मिष्टः केकारवो ये- रेवंभूतैर्वनशिखण्डिभिररण्यमयूरैरुत्कंधरैरुद्री वैरवलोक्यमानं निरीक्ष्यमाणं जलदकालस्य प्रावृट्समयस्य पदमिव स्थानमिव, सर्वसंतापानां समग्रतापानां प्रतिपक्षमिव शत्रुमिव, जडिम्नः शैत्यस्य निजावासमिव स्वाश्रयमिव, सुर- भिमासस्य वसन्तमासस्य निर्गममार्गमिव निर्गमनपन्थानमिव, मकरध्वजस्य कंदर्पस्याश्रयमिव निवासमिव, रतेः कंदर्पस्त्रिय उत्कण्ठाविनोदस्थानमिवोत्कलिका विलासपदमिव, सर्वरमणीयानां समग्रमनोहराणामास्पदमिव गृह- मिव, अनवरतं निरन्तरं वलिताः पश्चादायाता ये सुरभयः सुगन्धाः शीतलाः शिशिरा अच्छोदसरसस्तरंगाः कल्लोलास्तेषां मारुतेन वायुनाभिवीजितमभ्यन्तरशिलातलं यस्य स तमन्यतमं तटलतामण्डपमद्राक्षीदित्यन्व- यस्तु प्रागेवोक्तः। दृष्ट्वा चेति । अतिचिरकालेनान्तरितं व्यवहितं दर्शनमवलोकनं यस्यैवंभूतं तं लतामण्डपं दृष्ट्वा विलोक्य च भ्रातरमिव सहोदरमिव, तनयमिव सुतमिव, सुहृदमिव मित्रमिव, न विद्यतेऽन्यस्मिन्दृष्टिर्यस्यैवं भूतो विस्मृतो विस्मरणं प्राप्तो निमेषो निमीलनं यस्यैवंभूतेन चक्षुषा विलोकयन्पश्यन्तम्भित इव स्तब्धतां मोहेनेन्द्रियैः णैरुन्मच्यमान इवोत्प्राबल्येन राज्यमान इव झगति श घमन्मक्तान्य-