पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समासादितेन चात्र कथं मया वदनं दर्शवितव्यम्, पृष्टेन वा किमुत्तरं दातव्यम् । अथापि कथंचिद्दैवनियोगान्निःसृतोऽस्मि, तथाप्यनायासनीयं तातमेवं महीयस्यायासे तातप्रसादाद - दृष्टदुःखामम्बां वा निजापक्रमणशोकार्णवे पातयता किं कृतं भवत्यपुण्यवता । अपि च सुच- हुदिवस प्रवासोपतप्तः स्कन्धावारोऽपि मेऽद्यापि न परापतति, तेनापरसंविधानादर्धपथादेव निवृत्य पुनः प्रधावितव्यम् । अथावेद्य तातस्याम्बायाश्च ताभ्यां च विसर्जितः संविधानेन गच्छामि, तत्रापि किमिति कथयामि । मम स्नेहेंदुःखिता गन्धर्वराजपुत्री कादम्बरी मामुद्दिश्य - मकरकेतुनायास्यमाना दुःखं तिष्ठतीति । किं वा बलवान्मे तस्यामनुरागः | नै तथा वि नाहं प्राणान्संधारयामीति । किं तस्या मम च द्वयोरपि जीवितनिवँन्धन हेतुभूतया महाश्वे- तया तत्परिणयनाथ मे संदिष्टमिति । किं वा तहुःखमपारयन्सोदुमयं केयूरकस्तद्भक्तया मामानेतुमागत इति । अपरोऽपि वा कश्चिद्व्यपदेशो न शक्यत एव पुनर्गमनाय कर्तुम् । संप्रत्येव समधिकाद्वषत्रयात्मसाध्य वसुधां प्रयागतोऽस्मि | अद्यापि साधनमेव न परापतति । अकथयित्वा च गमनकरणं कथसात्मानं सोचयामि । कथं वा मुञ्चतु तातोऽम्बा वा | तत्सुहृत्साध्येऽस्मिन्नर्थे ऽर्नर्थपतितः किं करोम्येकाकी | वैशम्पायनोऽप्यसंनिहितः पार्श्वे मे | । J.. तव्यः । समासादितेन च पुनः प्राप्तेन च मया कथं वदनं दर्शयितव्यमन्येभ्यः प्रकाशयितव्यम् | पृष्टेन वा प्रश्नविषयीकृतेन मया किमुत्तरं प्रतिवचो दातव्यं प्रदेयम् । अथापीति । अथेति विचारणान्तरे । कथं- चिदपि महता कष्टेनापि दैवानियोगाद्विधि निर्देशान्निःसृतोऽस्मि निर्गतोऽस्मि । तथापि निःसृतेनाप्येवमनाया- सनीयमखेदनीयं तातं पितरं महीयस्ययन्तदीर्घ आयासे प्रयासे तातप्रसादात्पितुरनुग्रहाददृष्टदुःखामनव- लोकितकृच्छ्रामम्वां मातरं वा निजस्य स्वस्थापक्रमणं निर्गमनं तस्मायः शोकं: शुक्स एवार्णवः समुद्र स्तस्मिन्पातयताक्षेपयतापुण्यवता पापिना मया किं कृतं भवति किमाचरितं स्यात् । अपि चेति । अपिच युक्त्यन्तरे | सुबहव ते दिवसाथ सुबहुदिवसास्तान्यावत्प्रवासो देशान्तरे स्थितिस्तेनोपतप्तो व्याकुलीकृत ए- तादृशो मे मम स्कन्धावारोऽपि सैन्यनिवेशोऽप्यद्यापीदानीमपि न परापतति नागच्छति । तेन हेतुनार्धपथा- दर्धमार्गान्निवृत्त्य व्याघुट्यापरसंविधानादपरसैन्यग्रहणादेतोः पुनः कालान्तरे मया प्रधावितव्यम् | त्वरितगत्या गन्तव्यमिति भावः । अथेति विचारान्तरे | तातस्य पितुः, अम्बायाश्च मातुः, आवेद्य निवेद्य ताम्यां च मातृ- पितृभ्यां विसर्जितो गमनाय दत्ताज्ञः संविधानेनोत्तम प्रकारेण गच्छामि व्रजामि। तत्रापीति । तत्राप्यावेदने । किं किम्विति कथयामीति ब्रवीमि | इतिवाच्यमाह - ममेति । मम स्नेहेन मत्प्रीत्या दुःखिता दुःखं प्राप्ता गन्धर्व राजपुत्री देवगायननृपाङ्गजा कादम्बरी मां चन्द्रापीडमुद्दिश्याश्रित्य मकरकेतुना कंदर्पेणायास्यमाना खेदं प्रा. ध्यमाणा दुःखं यथा स्यात्तथा तिष्ठति निषीदति | 'किंवा बलवान्' इत्यारम्य महाश्वेतया तत्परिणयनाय मे संदिष्टम्, इत्यन्तं स्पष्टम् । किंवेति । किंवा इति कथयामीति पूर्वेण संवन्धः । इति किम् । तदुःखं कादम्बर्या दुःखं सोढुं तितिक्षितुमपारयन्त्रशक्नुवन् । अयं प्रत्यक्षः केयूरकस्तस्या गन्धर्वपुत्र्या भक्त्यान्तरस्नेहेन मां चन्द्रापी- डमानेतुं तत्रप्रापयितुमागतः समायातः । अपरोऽपीति । अपरोऽप्येतद्भिन्नोऽपि कश्चिदन्यो व्यपदेशो मिपं पु- नर्गमनाय कर्तुं न शक्यत एव न पार्यंत एव | संप्रत्येति | सांप्रतमेव समधिकात्किंचिदधिकवर्षंत्रयात्संवत्स-