पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ कादम्बरी । निवेश | संमानिताशेषराजलोकञ्च वैशम्पायनेन पत्रलेखया च सहैवं महाश्वेता, एवं काद- म्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः, इत्यनयैव कथया प्रायो दिवस मनैषीत् । कादम्बरीरूपदर्शनविद्विष्ठेवॆ नास्य पुरे प्रीतिमकरोद्राजलक्ष्मीः । तामेव च धवलेक्षणामाब- द्धरणरणकेन चेतसा चिन्तयतो जाग्रत एवास्य जगाम रात्रिः | अपरेयुश्च समुत्थिते भगवति रवावास्थानमण्डपगतस्तद्गतेनैव मनसा सहसैव प्रतीहारेण सह संप्रविशन्तं केयूरकं ददर्श । दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम् ' एह्येहि' इत्युक्त्वा प्रथममपाङ्गविस- पिंणा चक्षुषा, ततो हृदयेन, ततो रोमोद्गमेन, पश्चाद्भुजाभ्यां प्रभावितः प्रैथितमलिलिङ्ग गाढम् । उँपावेशयच्चैनमात्मनः समीप एव | पप्रच्छ च स्मितसुधाधवलीकृताक्षरं क्षरत्प्रीति द्रवमयमिव वचनमादृतः– 'केयूरक, कथय कुशलिनी देवी ससखीजना सपरिजना काद- म्बरी भगवती महाश्वेता च' इति । असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्वपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्यादृततरमवोचत्- 'अद्य कुशलिनी, यामे- वंदेवः पृच्छति ।" इत्यभिधायापनीयार्द्रवस्त्रावगुण्ठितं बिससूत्रसंयत मुखमाई चन्दनपकन्यस्त- बालमृणालवलय मुद्रं नलिनीपत्रपुटमदर्शयत् । उद्धाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्य- च स्कन्धावारवर्तिना जनेन प्रणम्यमानो नमस्क्रियमाणः स्वभवनं स्वगृहं विवेश प्रवेशं कृतवान् | संमानितः संस्तुतोऽशेषः समग्रो राजलोको येनैवंभूतश्च वैशम्पायनेन पत्रलेखया च सहैवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः, इत्यनयैव कथया वार्तया प्रायो वाहुल्येन दिवसं वासरमनैषीत् | परिपूर्णांचकारेत्यर्थः । कादम्बर्या रूपदर्शनं तेन विद्विष्टेव विद्वेषं प्राप्तेव राजलक्ष्मीर्नास्य पुरेऽस्य शरीरे । ‘घनो बन्धः पुरं पिण्डः’ इति कोशः | प्रीतिमकरोत् । तामेव धवलेक्षणां कादम्बरीमाबद्धरणरणकेन निवद्धौ- त्कण्ठ्येन चेतसा चिन्तयतो ध्यायतो जाग्रत एव अस्य चन्द्रापीडस्य रात्रिर्जगाम | अपरेधुश्चेति । अप रस्मिन्दिने भगवति रवौ समुत्थिते सति तद्गतेनैव कादम्बरीगतेनैव मनसास्थानमण्डपगतः सहसैवातर्कित एव प्रतीहारेण सह संप्रविशन्तं केयूरकं ददर्शाद्राक्षीत् । दूरादेवेति । दूरादेव दर्शनमात्रादेव क्षितितलं स्पृशती- त्येवंशीलेन मौलिना मस्तकेन कृतं पादपतनं येन तम्, एह्येहीत्युक्त्वेत्यभिधाय । इदं प्रीत्यतिशयनिवेदकम् । प्रथममादावपाङ्गविसर्पिणा नेत्रप्रान्तचारिणा चक्षुषा नेत्रेण, ततस्तदनन्तरं हृदयेन वान्तेन, ततस्तदनन्तरं रोमो- गुमेनोद्भूषणेन, ततः पश्चाद्भुजाभ्यां बाहुभ्यां प्रधावित उच्चलितः प्रथितं विख्यातं गाढमत्यर्थमालिलिङ्गोपगूहित- वान् । एनं केयूरकं आत्मनः समीप एव आत्मीयासनाभ्यर्ण एवोपावेशयदस्थापयच्च | पुनः स्मित- सुधाधवलीकृतान्यक्षराणि यास्मंस्तत्क्षरत्सवद्यः प्रीतिद्रवस्तन्मयमिव तन्निर्मितमिवैतादृशं वचनमादृत आ दूरवान्पप्रच्छ। प्रश्नं चकारेत्यर्थः । किं तदित्याह – केयूरकेति । हे केयूरक, कथय ब्रूहि । कुशलिनी क्षेमवती देवी ससखीजना सपरिजना कादम्बरी वर्तते । तथा महाश्वेता भगवती च । असौ विति