पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। ३२ कर्णोत्सङ्गोत्सारितालकाः, गृहीतजलकलशाः, स्नानार्थमभिषेकदेवता इव वारयोषित ताभिश्च समुन्नतकुचकुम्भमण्डलाभिर्वा रिमध्यप्रविष्टः करिणीभिरिव वनकरी परिवृत तक्षणं रराज राजा । द्रोणीस लिलादुत्थाय च स्नानपीठममलस्फटिकधवलं वरुण इव र हंसमारोह । ततस्ताः काश्चिन्मरकतकलशप्रभाश्यामायमाना नलिन्य इक मूर्ति पत्रपुटैः, काश्चिद्रजतकलशहस्ता रजन्य इव पूर्णचन्द्रमण्डलविनिर्गतेन ज्योत्स्नाप्रवा काश्चिकलशोरक्षेपश्रमस्वेदाईशरीरा जलदेवता इव स्फाटिकैः कलशैस्तीर्थजलेन, काश्थि लयसरित इव चन्दनरसमिश्रेण सलिलेन,काश्चिदुत्क्षिप्तकलशपार्थविन्यस्तहस्तपल्लवाः प्र र्यमाणनखमयूखजालकाः प्रत्यङ्गुलिविवरावनिर्गतजलधाराः सलिलयत्रदेवता इव, का जाड्यमपनेतुमाक्षिप्तवालातपेनेव दिवस श्रिय इव कनककलशहस्ताः कुङ्कुमजलेन वारा यथायथं राजानमभिपिपिचुः । अनन्तरमुदपादि च स्फोटयन्निव श्रुतिपथमनेकाहत हट्यो यामां ताः । सस्विति । समुत्क्षिप्तमुपरि गृहीतं कर्णानामाभरणं भूपणं याभिरतास्तथा । कई कत्सिमायणग़ापादुत्सारिता उपरिन्यस्ता अलकाः कुन्तला याभिस्तास्तथा । अत्र त्रिपदै शाभातिशयो व्यज्यते । गृहीतेति । गृहीता आत्ता जल कलशा वारिभृतवटा याभिरताः । च गुन ताभिस्तक्षणं तम्मिन्क्षणे परिवृत आवृतो राजा नृपो रराज शुशुभे । कथंभूताभिस्ताभिः । र कुचकुम्भमण्डलं यासां ताभिः । कीदृशश्च राजा । वारिमध्यप्रविष्टः । कमिव । करिणीभिर्हरितनीभि वृतो वनकरीव । यथा धेनुकाभिः समं मजनं कुर्वन्वनकरी शोभते तद्वदयमित्यर्थः । ततो द्रोणीसा द्रोणीजलादुत्थाय बहिर्निर्गल नानपीठमाहरोहेयन्वयः । कीदृशम् । अमलेति । अमलो मल: यः स्फटिको मणि विशंपस्तद्वद्धवलं शुभ्रम् । क इव । वरुण इव । यथा वरुणः प्रचेता राजहंसं कल- रोहति । तत इति । आरोहणानन्तरं ता वारयोपितो यथायथं यथायोग्यं राजानमभिषिषिचुरभिषेक दतो वारयोपितो विशेपयन्नाह-काश्चिदिति । काश्चित् काश्चन मरकतमणिनिर्मितो यः कलशः तस्य प्रभा कान्तिस्तया इयामायमानाः श्यामवदाचरिताः नलिन्य इव पद्मिन्य इव मूर्तिमल्यो नी न्यात्तद्रूपधारिण्यः पत्रपुटैः पर्णसंपुटैः राजानमभिपिपिचुरिति सर्वत्र । अन्याः काश्चन रजतस्य कलशः कुम्भो ह्स्ते पाणी यासां तास्तथा । का इव । पूर्णचन्द्रमण्डलात्समग्रशशिविम्वाद्विनिर्गतेन नि ज्योत्स्नाप्रबाहेण कौमुदीरयेण शोभमाना रजन्य इव त्रियामा इव । अन्याः काश्चन कलशस्य कुम्भ तक्षेप उत्पाटनं तस्माद्यः श्रमस्तेन यः स्वेदो धर्मजलं तेनार्द्र विनं शरीरं देहो यासां ता टिकैः स्फटिकसंबन्धिभिः कलशस्तीर्थजलेन ती म्भसा च सहिता जलदेवता जलाधिष्ठात्र्य इव ।। दिति । अन्याः काश्चन चन्दनस्य मलयजस्य रसो द्रवस्तेन मिश्रेण संयुक्तेन सलिलेन स्नानं का इव । मलयसरित इव मलयाचलनद्य इव । ता अपि चन्दनरस मिश्रसलिलाः स्युः । काश्चिा अन्याः काशनोन्क्षिप्त उत्पाटितोयः कलशस्तस्य पश्वा दक्षिण योवन्यस्त : स्थापित हस्तपल्ला