पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० कादम्बरी। तेन पठतां दिगन्तव्यापिना कलकलेन प्रचलितजनचरणशतसंक्षोभाद्विहाय कुसुमप्रकरमु- त्पततां च मधुलिहां हुंकृतेन, संक्षोभादतित्वरितपदप्रवृत्तैरवनिपतिभिः केयूरकोटिताडितानां क्वणितमुखररत्नदानां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् । अथ विसर्जितराजलोको 'विनम्यताम्' इति स्वयमेवाभिधाय तां चाण्डालकन्यका, 'वै. शम्पायनः प्रवेश्यतामेभ्यन्तरम्, इति ताम्बूलकरवाहिनीमाविश्य, कतिपयाप्तराजपुत्रपरि- वृतो नरपतिरभ्यन्तरं प्राविशत् । अपनीताभरणश्च दिवसकर इव विगलित किरणजालः चन्द्र- तारकासमूहशून्य इव गगनाभोगः समुपाहृतसमुचितव्यायामोपकरणां व्यायामभूमिमया- सीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः, श्रमवशादुन्मिषन्तीभिः मणयो येषां ते तथा तेपाम् । पुनः केन । मणीति । मणिकर्णपूराणां रत्नकर्णाभरणानां निनादेन शब्देन । क- र्णपूरं विशेषयन्नाह-प्रणामेति । प्रणामेन नमस्कारेण शिरोनमनात्पर्यस्तानां पतितानाम् । अतीति । अ- तिकठिनं यन्म णिकुटिमं तत्र निपतितेन पातेन रणरणायितानां संजातरणरणितिशब्दानाम् । पुनः केन । दिशां ककुभामन्ता दिगन्तास्तान्व्याप्नुवन्तीत्येवंशीलेन कलकलेन कोलाहलेन । केपाम् । पठताम् । कीर्तिपाठकानामि. त्यर्थः । कीदृशानाम् । पुरोयायिनामग्रगामिनां मङ्गलपाठकानां बन्दिनां जयजीवजयजीवेति यन्मधुरं वचनं तद. नुलक्षीकृत्य यातेन प्रवृत्तेन । पुनः केन । मधुलिहां भ्रमराणां हुंकृतेन हुंकारशब्देन । किं कुर्वताम् । उत्पतता- मुड्डीनं कुर्वताम् । किं कृत्वा । विहाय त्यक्त्वा । किम् । कुसुमप्रकरं पुष्पसमूहम् । कस्मात् । प्रचलितेति । प्रचलिता ये जनास्तेषां चरणाः पादास्तेपां शतं तस्माद्यः संक्षोभः संभ्रमस्तस्मात् । पुनः केन । मणिस्तम्भानां रत्नस्थूणानां रणितेन रणत्कारेण । कीदृशेन । क्वणितेन शब्दितेन मुखराणि वाचालानि रत्नदामानि येषु ते तथा तेषाम् । केयूरेति । केयूराणामङ्गदानां कोटयोऽग्रभागास्तैरताडितानामाहतानामिति स्तम्भविशेषणम् । कैः । अवनिपतिभिः नृपतिभिः । कीदृशैः । संक्षोभश्चित्तवैक्लव्यं तस्मादतित्वरितपदमतिवेगवत्तर चरणं यथा स्या- तथा प्रवृत्तः प्रचलितैः । अन्वयस्तु प्रागेवोक्तः । अथेति अथेत्यानन्तर्ये । नरपती राजा कतिपयैः कियद्भिराप्तैः शिष्टै राजपुत्रैपसूनुभिः परिवृतः सहि- तो विसर्जितो विमृष्टो राजलोकः परिच्छदलोको येन रा तथा । राज्ञो विशेषणम् । विश्रम्यतां विश्राम गृह्यता- मिति सर्वांन्स्वयमेवात्मनवाभिधायोक्त्वा तां चाण्डालकन्यकां वैशम्पायनश्च शुकोऽभ्यन्तरं मध्यं प्रवेश्यतां प्रवे- शं कार्यतामिति ताम्बूलस्य नागवल्याः करङ्कः स्थगी तां वहतीत्येवंशीला सा तथा तामादिश्याज्ञां दत्त्वाभ्य- न्तरम् । अर्थातृहस्य । प्राविशत्प्रवेशे चकार । तदनन्तरं स राजा व्यायामः श्रमस्तत्करणयोग्यां भूमि वसुंधरा- मयासीदगच्छत् । इतो राजानं विशेषयन्नाह-अपेति । अपनीतानि दूरीकृतान्याभरणानि भूपणानि येन स तथा । क इव। दिवसकर इव सूर्य इव । कीदृशः । विगलितानि स्रस्तानि किरणजालानि दीधितिवृन्दानि यस्य स तथा । तत एवैतयोः साम्यम् । पुनः क इव । गगनाभोग इव घनाश्रयविस्तार इव । कीदृशः । Tri TTT fier G Am -ति