पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २९१ उन्मार्गप्रवृत्तिनिवारणं वा करणीयम् । कस्यान्यस्य वा वचसि मया स्थातव्यम् । को वापर- स्त्वत्समो मे जगति बन्धुः । किं करोमि, यन्न शक्नोमि निवारयितुमात्मानम् । इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था | तद्गत इदानीमुपदेशकालः । यावत्प्राणिमि तावदस्य कल्पान्तो- दितद्वादश दिनकर किरणातपतीब्रस्य मदनसंतापस्य प्रतिक्रियां क्रियमाणामिच्छा पच्यन्त इव मेऽङ्गानि, उत्क्कथ्यत इव हृदयम्, पुष्यत इव दृष्टि: ज्वलतीव शरीरम् । अत्र यत्प्राप्त - कालं तत्करोतु भवान्' इत्यभिधाय तूष्णीमभवत् । एवमुक्तेऽप्यमेनं प्राबोधयं पुनः पुनः । यदा शास्त्रोपदेशविशदैः सनिदर्शनैः सेतिहासैश्च वचोभिः सानुनयं सोपग्रहं चाभिधीयमा- नोऽपि नाकरोत्कर्णे, तदाहम चिन्तयम् – 'अतिभूमिमयं गतः, न शक्यते निवेर्तयितुम् । इदानीं निरर्थकाः खलूपदेशा: । तत्प्राणपरिरक्षणेऽपि तावदस्य यत्नमाचरामि' इति कृतम - तिरुत्थाय गत्वा तस्मात्सरसः सरसा मृणालिका : समुद्धृत्य कमलिनीपलाशानि जललवलौ- च्छितान्यादाय गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलयकमलानि गृहीत्वागत्य देशो दातव्यः | उन्मार्गेति । वाथवोन्मार्गेऽसाधुमार्गे या प्रवृत्तिः प्रवर्तनं तस्या निवारणं करणीयं कर्तव्यम् । कस्येति । अन्यस्य तव्यतिरिक्तस्य करय वा वचसि वचने मया स्थातव्यम् । न कस्यापीस्यर्थः । को वेति । अपरोऽन्यः को वा त्वत्समो मे मम जगति विश्वे बन्धुभ्रता | आविष्कृतं भावमुपसंहरति – किमिति । किं करोमि किं कुर्वे । यदिति हेतौ । आत्मानं स्वं निवारयितुं दुष्टप्रवृत्तेर्दूरी कर्तुं न शक्नोमि न समर्थो भवामि । अनेनेति । अनेनैव क्षणेन समयेनेयं दुष्टा दुःखदायिन्यवस्था दशा भवता त्वया दृष्टावलोकिता | तदिति । तस्माद्धेतोरिदानीं सांप्रतमुपदेशकालः शिक्षाप्रदानसमयो गतो व्यतिक्रान्तः । अन्यस्मिञ्शमदमादिरूप निवृत्ति- करणाभावे हेतुमाह – यावदिति । यावत्कालमहं प्राणिमि जीवासि तावत्पर्यन्तम् । कल्पेति । कल्पान्तो युगान्तस्तत्रोदिता उदयं प्राप्ता ये द्वादशदिनकरकिरणास्तेषां य आतपः प्रकाशस्तद्वत्तीव्रस्य कठिनस्य | दुःस हस्येति यावत् । एवंविधस्य मदनसंतापस्य कंदर्पज्वरस्य प्रतिक्रिया चिकित्सा तल्लक्षणां क्रियां क्रियमाणां विधी- यमानामिच्छामि समीहे | विवेकादिप्रतिक्रियाया अभावे प्राकृतप्रतिक्रिया तथा सह संगमरूपैवेति भावः । सं- तापमेव प्रकटयन्नाह - पच्यन्त इति । मे ममाङ्गानि हस्तपादादीनि पच्यन्त इव पाकविपयीक्रियन्त इव । हृदयं स्वान्तमुत्कथ्यत इवोत्क्काथ्यत इव | दृष्टिर्लोचनं लष्यत इव दह्यत इव । शरीरं देहं ज्वलतीच भस्मीभवतीव | अत्र यत्प्राप्तकालं यदेतत्समयोचितम् । तया सह संगमरूपमित्यर्थः । भवांस्तत्करोत्विति पूर्वोक्तमभिधायोक्त्वा तूष्णीमभवन्मौनमकरोत् । एवमिति । एवममुना प्रकारेणोक्तेऽपि कथितेऽप्यहमेनं पुण्डरीकं प्राबोधयं प्रवो- धं कृतवान् | यदेति । यदा पुनःपुनर्भूयोभूयः शास्त्रस्य धर्मप्रतिपादकस्य ग्रन्थस्योपदेशः शिक्षा तेन विश दैर्निर्मलैः सनिदर्शनैः सोदाहरणैः सेतिहासैरितिहासः पुरावृत्तं तेन सहितैर्वचोभिः सानुनयं सप्रणयम् । 'प्रणति- प्रणिपातेऽनुनये' इति कोशः | सोपग्रहं सानुकूलनम् । 'उपग्रहोऽनुकूलने' इति विश्वः । यथा स्यात्तथाभिधी- यमान उपदिश्यमानोऽपि कर्णे श्रवणे नाकरोत् । अश्रुतमिव मदुक्तमकार्षादित्यर्थः । तदेति । तदा तस्मिन्काले- STT FAST मिति : काय कमी