पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० कादम्बरी | दिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः' इति । इवमुक्तश्च मया सस्नेहया सखीमिवो रिणीमिव प्राणप्रदामिव दृष्टया मामभिनन्द्य निकटवर्तिनस्तमालपादपात्पल्लवमादाय निष् तटशिलातले तेन गन्धगजमदसुरभिपरिमलेन रसेनोत्तरीयबल्कलैक देशाद्विपाट्य पट्रिक हस्तकमलकनिष्ठिकानखशिखरेणाभिलिख्येयं पत्रिका 'त्वया तस्यै कन्यकायै प्रच्छन्न किन्यै देया' इत्यभिधायार्पितवान् इत्युक्त्वा च सा ताम्बूलभाजनादाकृष्य तामदर्श अहं तु तेन तत्संबन्धिनालापेन शब्दमयेनापि स्पर्शसुखमिवान्तर्जनयता श्रोत्रविषये रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन मदनावेशमन्त्रेणेवावेश्यमाना तस्याः करतलादादा वल्कलपत्रिकां तस्यामिमामभिलिखितामार्यामपश्यम् -- दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥' अनया च मे दृष्ट्या दिमोह भ्रान्त्येव प्रणष्टवर्त्मनः बहुलनिशयेवान्धस्य, जिह्नोच्छि मूकस्य, इन्द्रजालिक पिच्छिकयेवातत्त्वदर्शिनः ज्वरप्रलापप्रवृत्त्येवासंवद्वभाषिणः, दु 19 ताम् । अथ चायं मलक्षणो जनोऽनुगृह्यतामनुग्रहविषयीक्रियताम् । एवं पूर्वोक्तप्रकारेण सस्नेहया सप्रेम्ण तश्च स मुनिः सखीमिव वयस्यामिवोपकारिणीमिवोपकृतिकत्रीमिव प्राणप्रदामिव जीवितदात्रीमिव म चक्षुपाभिनन्द्य प्रमोदं जनयित्वैव निकटवर्तिनः समीपस्थात्तमालपादपात्तापिच्छवृक्षात्पल्लवं किसलय गृहीत्वा तटशिलातले तीरप्रस्तरे निष्पीड्य संमर्थ तेन निष्पीडनोद्भुतेन गन्धगजा गन्धेभास्तेष दानं तद्वत्सुरभिः सुगन्धः परिमलो यस्यैवंविधेन रसेनोत्तरीयं यद्वल्कलं तस्यैकदेशादेक प्रदेशात्पट्टिकां विपाट्य द्वैधीकृत्य स्वकीय आत्मीयो यो हस्तः पाणिः स एव कमलं नलिनं तस्य कनिष्ठिका कनीनिका तस् शिखरेण नखरात्रेणेयं पत्रिकाभिलिख्य लिपीकृत्येत्यभिधायेत्युक्त्वार्पितवान्दत्तवान् । इतिशब्दाभिधेय त्वयेति | त्वया भवत्या तस्यै कन्यकायै महाश्वेतायै एकाकिन्यै अद्वितीयायै प्रच्छन्नं गुप्तं देयार्पणीय सा च ताम्बूलकरङ्कवाहिनी तरलिका ताम्बूलभाजनात् तां पत्रिकामाकृष्य निष्कास्यादर्शयत् दर्शिक अहं स्थिति । तु पुनरर्थकः । अहमित्यात्मनिर्देशः | तस्यास्तरलिकायाः करतलाद्धस्ततलात्तां वल्कल मादाय गृहीत्वा तस्यामि माम भिलिखितामार्यामपश्यमद्राक्षमित्यन्वयः । कीदृश्यहम् | आवेश्यमान पयीक्रियमाणा । केन । तस्य पुण्डरीकस्य संबन्धिना संबद्धेनालापेन संलापेन । किं कुर्वता मयेन शब्दात्मकेनापि स्पर्शसुखमिव संश्लेषसातसदृशमिवान्तर्मध्ये जनयता उत्पादयता शब्दो विरोधद्योतनार्थः । श्रोत्रविषयेणापि कर्णगोचरेणापि रोमोद्गमेन पुलकेनानुमितोऽनुमितिविष्‍