तदुक्तां तु दशां तस्य जनस्यावेत्य१ तादृशीम् ।
आगतां नागतां वापि नाहमम्बामलक्षयम्२ ॥ ९३ ॥
ततः कमलिनीं रक्तां३ त्यक्त्वा क्वापि गते रवौ ।
उदिते सर्वथा वामे विधौ वैधुर्यदायिनि४ ॥ ९४ ॥
उन्मूलितेव कामेन दग्धेव विरहाग्निना ।
पुनस्तरलिकामेव साश्रुकण्ठमवादिषम् ॥ ९५॥
अहं यथातथा वापि भवेयं स तु मत्कृते ।
कथं भविष्यतीत्येषा चिन्ता ५दलयतीव माम् ॥ ९६ ।।
इतः शास्त्रं कुलाचारो लज्जा गुरुजनाद्भयम् ।
इतः ६कामो वसन्तोऽपि विरहो मरणाद्भयम् ॥ ९७ ॥
वद किं करवाण्यत्र मुह्यतीव मनो मम ।
माभून्मे नरके विप्रप्राणबाधेन मज्जनम् ॥९८ ॥
इत्यादि विलपन्त्या मे तत्कालसुलभोदया ।
जहार चेतनां मूर्च्छा निद्रेव नयनद्युतिम् ॥ ९९ ।।
अथ मां ग्राहयित्वासौ संज्ञा शीतजलानिलैः।
निपत्य पादयोः साश्रुनेत्रा तरलिकाब्रवीत्८ ॥१०० ॥
किं शास्त्रं गुरवः के च का लज्जा का कुलस्थितिः।
रक्ष्यन्तामात्मनः प्राणा यूनस्तस्य च सर्वथा ॥ १०१ ॥
गन्धर्वाणां विवाहोऽयमिच्छयान्योन्यसंगमः ।
शास्त्रेषु पठितस्तस्मात्तूर्णमुत्तिष्ठ गम्यताम् ॥ १०२ ॥
१०तयैवमुक्ता तत्कालयोग्यवेषग्रहा गृहात् ।
तामेकामग्रतः कृत्वा निर्गताहमलक्षिता ॥१०३।।
अभ्यागममिमां भूमिमौत्सुक्यचटुलैः पदैः ।
तदा मे दक्षिणं चक्षुरस्पन्दत मुहुर्मुहुः ॥ १० ॥
१. 'आवेद्य' ख. २. 'ह्यम्बामहं' क. ३. 'त्यक्त्वा रात्रौ' ख. ४. 'वैधेयनाशिनि'
ख. ५. 'दोलायतीव' ख. ६. 'कामोऽतिदुर्धर्षो' ख. ७. 'दुस्तरे विप्रवधैनसि निमज्जनम्' ख. ८. 'अवदत्' ख. ९. 'किं शास्त्रं' इत्यादिश्लोकः ख.पुस्तके नास्ति. १०. 'तथा' ख. ११. 'चतुरैः' क.