एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
कादम्बरीकथासारः
तां पुण्डरीकं स्फटिकक्षमात्रं
हीसन्नकण्ठः करुणं ययाचे || १०० ॥
अथात्मकम्ठादवमुच्य तस्मै
मुक्तावलीं मोहवशादयच्छम् ।
जग्राह निःसंशयमेव सोऽपि
तामक्षमालेति मतिभ्रमेण ॥ १०१ ॥
ह्रिया निवृत्तस्य शनैर्भहर्षे
रदर्शनादाननशीतभानोः ।
अक्ष्णोः सनाथा अपि 1पुष्पवद्या
मन्थंकरिण्यो हरितो बभूवुः ॥ १०२ ॥
इत्थं गते सति तमेव विचिन्नयन्नी
सख्या बलेन सहसैव निवर्यमाना ।
नीता प्रतीपमधिकं कलुषा नदीव
शून्या गृहं प्रति ततः शनकैरगच्छम् ।। १०३ ॥
इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादम्बरी
कथासारसंग्रहाख्ये काव्ये सप्तमः सर्गः ।
1. पुष्यवज्ज्यमत मातृका ।।
१०२ पुष्यवरौ दिवाकरनिशाक ।
- एकयोकण पुष्पवन्त दबाकरनश ॥ इति अमरः ।