कादम्बरीसारः
अथ चतुर्थः सर्गः
अथ देव्या तया साकं रममाणो महीपतिः ।
कञ्चित्कालं निनायासीौ पद्मक्ष इव पद्मया ॥ १ ॥
पतिः प्रजानामात्मानमवरोधेषु सत्स्वपि ।
तया च वसुमत्या च कलत्रणममन्यत ।। २ ।।
तयोर्निरशं प्रेम परस्परमवर्धत ।
विशोगवार्ताविर्भावनःसहं चक्रयोरिव ॥ ३ ॥
एकदाश्रुमुखीं देवीं दी धरणीपतिः ।
हिमेदकाप्लुताम्भोज पद्मिनीमिव भानुमान् ॥ ४ ॥
तां दृष्ट्वा दीनवदनामश्रुपर्याविलेक्षणाम् ।
तन्निदानानभिज्ञानादन्तस्तापमवाप सः ॥ ५ ॥
पर्यंङ्किकायां शनकैराचारार्थं समुत्थिताम् ।
निवेश्य तां नृपः पश्चात्तया निविविशे सह ॥ ६ ॥
कराम्बुजेन नासाग्रे लुठनं बाष्पशीकरम् ।
प्रमार्जयन् शुचो हेतुं प्रियां पप्रच्छ पार्थिवः ॥ ७ ॥
भृशं निःशब्दमधुरं किमर्थं रोदिवि प्रिये !
वद दुःखनिदानं ते समदुःखो भवाम्यहम् ॥ ८ ॥
इति निर्बध्य पृष्टापि नोत्तरं प्रत्यपद्यत ।
चामरग्राहिणी तस्या नृपं मकरिकऽवदत् ॥ ९ ॥
अद्य देवी महाकालमितोऽभ्यर्चयितुं गता ।
श्रीमहाभारते तत्र वाच्यमानेऽनया श्रुतम् ॥ १० ॥
१. वमन्योन्यं वकयोश्रियेत मातृ ।