एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
श्री त्रिविक्रमविरचितः
कजलैरिव विलिसमम्बरं
यौरिव क्षितितलं समाश्रिता ।
मीलिता इव दिगङ्गनादृश
स्तेजसामधिपतौ तिरोहिते ।। १०१ ।।
यामिनीसहचरोऽपि तत्क्षणा
दध्यक्षदुदयाद्रिमण्डपम् ।
मीनकेनुरपि जेतुमङ्गनाः
केलिकुण्डलितकार्मुकोऽभवत् ॥ १०२ ॥
उत्थिते स्मरसखे निशाकरे
मानिनीकठिनमानहारिणि ।
आर्द्धभावमभजन्मृगीदृश
श्चन्द्रकान्तशिलया समे मनः ॥ १०३ ॥
चक्रवाकमिथुनं विलोक्य सा
विप्रयोगविरसाशये पुरः ।
स्वां दशामपि निशाम्य 1दुःसहं
तापमाप सुतरां तलोदरी ।। १०४ ॥
निर्जगाम निजमन्दिरान्तरा
द्रष्टुमुकलिकया नृपं वधूः ।
पजात्परिमलाधिवासितं
चूतमिष्टविव षट्पदाङ्गना ॥ १०५ ॥
अन्विता कतिपयैः सखीजनैः
केलिशैलसविधं समेत्य च ।
1. दुस्सहा इति म तृषु ।