पृष्ठम्:कादम्बरीकथासारः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
कादम्बरीकथासारः


अस्तु कादबरी साक्षातैव नानार्थतोऽपि च ।
चित्ते दर्शनमात्रेण कथमुक़ामयत्यसौ ॥ ३२ ॥

अहो ! पदोन किं तेन 1दुष्करं सुकृतं कृतम् ।
अस्या मुखेन सादृश्यं लभेत कथमन्यथा ॥ ३३ ॥

दृष्टिरेवातिदीर्घयमवतंसपदं गता ।
हारेण किं वतंसेन पुनरुक्तिविधायिना ॥ ३४ ॥

अस्याः सर्वानवयवान् तांस्तानतिमनोहरान् ।
पश्यतामुपमानानि भुवं यान्युपमेयताम् ॥ ३५ ॥

श्रुत्वा लोकोत्तरामेनां मचित्तं लिखति स्म याम् ।
अस्या विसदृशीमूर्तिः दाश्यमपि नार्हति ।। ३६ ॥

एषा पप्रभाचरैः कटकैर्मधुवर्षिभिः ।
सचेतसः कस्य भृशं न करोति रसार्दताम् ॥ ३७ ॥

ततस्तां तत्समानीतः कन्यक्रमासदन्नृपः।
वीचिसम्प्रेरितो मन्दं राजहंस इवजनीम् ॥ ३८ ॥

अथ रोमोद्गमः पूर्वं ततो 2भूषणसिर्जितम्।
सा3 च कादम्बरी पश्चात्समुत्तस्थौ ससंभ्रमम् ॥ ३९ ॥

कादम्बरी समुत्थाय सखी4मस्वजददरात् ।
सा तामपि परिष्वज्य व्याहार्दाद्वरवर्णिनीम् ॥ ४० ॥

सखि! कादम्बरि! ख्यातस्तारापीडत्रिविष्टपे ।
महात्मा भारत वर्षे राज सत्यपराक्रमः ।। ४१ ।। ।


1. दुर्लभमित मातृका । 2. भाषणसिञ्जितमिति म तृ। 3. सायस्त्र ...
इति मातृघ्र। 4. मखजनदरात इति मतृका ।