अत्र यत्प्राप्तकालं मे तत्करोतु भवानिति ।
उक्त । तूष्णीं शिलपट्टे मृतप्रायोऽशयिष्ट सः ॥ ६३ ॥
इदानीमुपदेशो मे1ऽशान्तस्य परितापकृत् ।
शीतलः पयसो बिन्दुः प्रतप्तस्येव सर्पिषः ॥ ६४ ॥
आद्यमाहुर्महात्मानः शरीरं धर्मसाधनम् ।
अतोऽस्य रक्षा कार्येति निर्णाय सहसोत्थितः ॥ ६५ ॥
ततः पल्लवभङ्कन पयक्क परेकरुप्य च ।
शाययित्वा च तं तत्र पद्मपत्रैरवीजयम् ॥ ६६ ॥
सुगन्धि घनसारं च चूर्णयित्वाऽतिशीतलम् ।
अकार्य स्विन्नगात्रस्य मुहुः स्वेदप्रतिक्रियाम् ।। ६७ ॥
संक्षुच च शिलापट्टे गन्धसारं हिमाम्बुना ।
कृत्वा ललाटिकां चर्चा सर्वाङ्गीणामकल्पयम् । ६८ ॥
आसावसिष्पाणोऽयमवस्थामष्टमीं गतः ।
हा कथं जीवयाम्येनमिति सन्तप्तमानसः ॥ ६९ ॥
तमुज्जीवयितुं बन्धं त्वामहं शरणं गतः ।
नलं कामातुरं हंसो दमयन्तीमिवादरात् ॥ ७० ॥
तिष्ठत्युकलिकादीनः त्वामेव प्रतिपाल्य सः ।
वर्षासु2 चातकयुवा तृषितः कालिकामिव ॥ ७१ ।।
प्रमाणमत्र भवतीत्युक्त्वा बाष्पाविलेक्षणः ।
हीनम्रवदनस्तूष्णीं लिखनास्त महीतलम् ॥ ७२ ॥
अवर्धयन्मदुत्कण्ठां वाचा करुणया मुनिः ।
प्रभया तपनः क्षीणां दी शशिकलामिव ॥ ७३ ॥
1. मे शान्तोऽस्य इति मातु । 2. पर्धासु इति मातृ ।