तत्र तेनैव लिखितां ललितार्थं सुखश्रवाम् ।
तुल्यानुरागपिशुनामिमामार्यां व्यलोकयम् ॥ । २२ ॥
" दूरं मुक्तालतया विससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः " इति ।
सन्देशेनामुना साऽहं किञ्चिदुञ्चसिताऽभवम् ।।
म्लाना पृथिव्यां पर्यस्ता लतेवपन्नशाखिना ।। २४ ।।
अपूर्वमिव तां वीक्ष्य प्रीतिस्निग्धेन चक्षुषा ।
लालयित्वा करेणास्याः 1श्यामलं चूर्णकुन्तलान् ॥ २५ ॥ ।
कथं तरलिके तत्र दृष्टो मुनिकुमारकः ।
कियदस्ताननुप्राप्तः तेन किं किमुदीरितम् ॥ २६ ॥
त्वया किमुत्तरं दत्ते लिखिता पट्टिका कथम् ।
इत्येवमादि सकलं पर्यपृच्छं पुनः पुनः ॥ २७ ॥
तस्मिन्नग्रंलिहे हन्यै' तथैवोपस्थिता तया ।
कथया पुण्डरीकस्य नि:शेषमनयं दिनम् ॥ २८ ॥
ततः क्षीणप्रभे भानावस्ताद्रिशिखरं गते ।
सा छत्रग्राहिणी प्राप्य मामेवमिदमब्रवीत् ॥ २९ ॥
तिष्ठत्यन्यतरो द्वारि तयोर्मुनिकुमारयोः।
ब्रवीति चाक्षमालं तामागतोमीति याचितुम् ॥ ३० ॥
कुमारशब्दमात्रेण पुनरागतजीविता ।
अनुत्थितापि स्वस्थानाद्गत्वेव द्वारमागता ।। ३१ ।।
1. टि। इन मातृक