पृष्ठम्:करणप्रकाशः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्ताधिकारः । ४३ तरणेः सूर्याल्लघुगतिरल्पगतिर्गुहो यथा भौमगुरुमन्दा वक्रिणौ बुध- शुक्रौ च यदा तरणेरूनो ऽल्पस्तदा प्राच्यां दिश्युदेति रात्रिशेषे । अधि कगतिर्गुहश्च यथा चन्द्रो ऽवक्रिणो ज्ञशुक्रे च यदा रवेरधिकस्तदा प्रती च्यामुदेति । एवं सो ऽधिकगतिर्गुहो यदा रवेरूनस्तदा शक्रस्येन्द्रस्य दिशि अर्थात् प्राचि ऊनगतिश्च रवेर्यदाधिकस्तदाऽपरस्य पश्चिमायां दिश्य स्त यातीत्यर्थः । अत्रोपपत्तिः । ‘ रवेरूनभुक्तिर्गुहः प्रागुदेतीस्यादिभास्करप्रकारतः स्फुटैव सिद्धान्तविदामिति ॥ १ ॥ कालांशकैर्दिनकरै-१२ र्नवाभिः ९ कुचलै-११ र्विश्वै-१३र्दिनै–१५ स्तुरगशीतकरैः १७ क्रमेण । शीतांशुयुकगुरुसोमखतार्किभौमा हीनाधिका दिनपतेः स्युरदृश्यदृश्याः ॥ २ ॥ स्पष्टार्थम् । कालांशाश्च प्राचीनैरेतावन्त एवोपलब्धा इत्यत्र तेषां वा- गेव कारणं कालांशानां स्थिरत्वे नान्यत् कारणं वक्टुं शक्यत इति । च न्द्रादीनां कालांशाश्च । चं १२ मे १७ । बु. १ ३ । गु. ११ । शु. ९ । श. ११ । भास्करादिमतेन बुधशुक्रकालांशा भिन्नाः सन्ति ॥२॥ प्रहस्य ज्योगहेत । त्रेभज्यका क्षेपाहता rr शैलनवाधि-२९७ भिर्भजेत् । लिप्तादि बाणायनयोःसमाशयोः कुर्याद्दणं भिन्नदिशोर्धनं ग्रहे ॥ ३ ॥ त्रिभज्यका ग्रहदेज्यरहिता कार्या । एवं भुजकोव्युत्क्रमज्या जाता सा क्षेपेण ग्रहशरेणाहता तां शैलनवाश्वि-२९७ भिर्भजेद्रणक इत्यध्याहा र्यम् । लब्धं लिप्ताद्ययनदृक्कर्मकलाः स्युरिति। शेषं स्पष्टार्थम् । अत्रोपपत्तिः । स्थूलतया धूज्या त्रिज्या गृहीता । नाडीमण्डल्लासव एव क्रान्तिवृत्ते कलाः कल्पिता उत्क्रमज्ययाऽऽयनवलनं च साधितम् । तत “ आयनं वलनमस्फुटेपुणा सङ्गणं शृणभाजित ’ मित्यादिभा