पृष्ठम्:करणकुतूहलम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (८१) दक्षिणा, उदयास्ते परमलम्बनं घटिकाचतुष्टयम् ४ परमनति- रङ्गुलाद्या १६।५५॥२॥३॥ अथ सकृत्प्रकारेण लम्बनानयनं वसन्ततिलकाद्वये- नाह- सप्तादयः कुमनवोऽष्टधृती नवेन्दुदस्त्राः शरत्रिय- मलाः खजिनाश्च पिण्डाः । षट्व्यश्विनो जिनयमा द्विशती त्रिभोनलग्नार्कयोर्विवरभागमितेर्भवाप्ताः ॥४॥ पिण्डो गतस्त्वगतयातवियोगनिघ्नशेषेशभागरहितः सहितश्च भाग्ये। ऊनाधिके खरसत्दृत्खलु लम्बनं वा प्राग्वत्स्फुटः सकृदतो नतिरन्यलग्नात् ॥५॥ सप्तेति । ७७।१४१।१८८।२१९।२३५।२४०।२३ ६।२२४।२०० इत्यादयो नव लम्बनपिण्डा एकादशैकाद- शान्तरितभागानामसकत्साधितलम्बनस्य पानीयपलानीत्यर्थः। यदा त्रिभोनलमार्कयोरन्तरं षट्षष्टिभागा भवन्ति तदा परमं लम्बनमसकृत्कर्मणा साधितं घटीचतुष्टयात्मकमुपचयात्मकमु- त्पद्यते ततः परमोपचयात्मकमेकादशभिरंशैरष्टौ खण्डकानि भवन्ति तेन नवमः पिण्डो नवत्यंशा द्वितीयमुक्तम्, अथ गणितागतपर्वान्तकालीनत्रिभोनलग्नार्कयोर्विवरस्यान्तस्य भुज- भागेभ्यो भवैरेकादशभक्तेभ्यो यल्लब्धं सत्संख्यः पिण्डो गतः उक्तं च करणप्रकाशे वित्रिभलमार्कान्तरभुजभागोनघ्नरदभुवो भक्ता।भाष्टककुभिः सकृद्वा लम्बननाड्यः स्फुटाःप्राग्वत् ॥१॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri