पृष्ठम्:करणकुतूहलम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगणेशाय नमः।

श्रीमद्भास्कराचार्यप्रणीतं

करणकुतूहलम्

सटीकं प्रारभ्यते.

 श्योतच्छैलशिलोच्छलज्जलकणैराकामबाणाम्बुधौ
 मग्नस्तन्मुखपङ्कजं कमलवद्रेजे सरोजश्रिया ॥
 तत्राप्यद्भुतधैर्ययुक्सुरवरैर्यः स्तूयते कोटिशो
 मित्रामित्रसमस्वभावविभवः श्रीपार्श्वराट् सश्रिया॥

 अथारब्धग्रन्थनिर्विघ्नपरिसमाप्तयेऽभीष्टदेवतानमस्काररूपं मंगलाचरणमभिधेयं चाह-

 गणेशं गिरं पद्मजन्माच्युतेशान्ग्रहान्भास्करो
 भास्करादींश्च नत्वा । लघुप्रक्रियं प्रस्फुटं खेटकर्म
 प्रवक्ष्याम्यहं ब्रह्मसिद्धान्ततुल्यम् ॥ १॥

 इतः षट् भुजङ्गप्रयाताः । अथ सिद्धान्तपाटीबीजगणितकरणानन्तरम्, उक्तं च "रसगुणपूर्णमहीसम ( १०३६) शकनृपसमयेऽभवन्ममोत्पत्तिः। रसगुणवर्षेण मया सिद्धान्त- शिरोमणी रचितः"॥ भास्करनामाहं ग्रन्थकारो गणपतिं सरस्वतीं ब्रह्मविष्णुशिवान् सूर्यादीन् ग्रहांश्च प्रणम्य खेटानां ग्रहाणां कर्म मध्यादिविधानं कथयिष्यामीति सटंकघटना । अप्रामाण्यशंकानिरासाय विशेषणं ब्रह्मसिद्धान्ततुल्यम् । ब्रह्मसिद्धान्तेनावगतार्थत्वमाशंक्याह । लध्वी प्रक्रिया कर्त-

CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri