पृष्ठम्:करणकुतूहलम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1 गणककुमुदकौमुदीटीकासमेतम् । (४१) अशुद्धपूर्वैर्भवनैरजायैर्युक्तं तनुः स्यादयनांशहीनम्। भोग्याल्पकाले खगुणाहतोऽर्कः स्वीयोदयाप्तां- शयुतो विलग्नम् ॥४॥ नागकुरंगदला अष्टसप्ताधिकद्विशतानि २७८ पलानि मीनमेषयोर्लकोदयप्रमाणम्, गोंकाश्विनः २९९ वृषकुम्भयोः, रामरदाः३२३ मकरमिथुनयोर्विनाड्यः पलानि, एवं क्रमेण कर्कादीनाम्, एते षडुत्क्रमेण तुलाद्याः । अथ स्वदेशीयार्थ- मेते लंकोदयाः क्रमोत्क्रमस्थाः स्वैः प्रागुक्तप्रकारेण स्वदेश- साधितैश्चरखण्डैः क्रमोत्क्रमस्थैविहीनयुक्ता इत्यर्थः। एवं कृते मेषादिषण्णां राशीनामुदया अवन्ति, स्वदेशीया विलोमसंस्था अमी मेषोदयास्तुलादिषण्णां भवन्ति॥अथ श्लोकत्रयव्याख्या। यातैष्यनाडीगुणितेत्यग्रे वक्ष्यमाणप्रकारेण तात्कालिकं सूर्यं सायनांशं कृत्वा तस्य भागाद्यं यद्गतांशायं त्रिंशद्भिः शोधितं भोग्यांशादिकं कृत्वा तेन स्वोदयो यस्य राशौ सूर्यस्तस्य राशेः स्वोदयो गुणनीयस्ततः खाग्न्युद्धृतो यल्लभ्यते तद्रवेर्भोग्यकाल- मुच्यते, तदिष्टघटीनां पलेभ्यो विशोधयेत्, तच्छेषादग्रस्थरा- श्युदया यावंतः शुध्यन्ति तावतो विशोधयेत्, तच्छेषं खाग्नि- गुणं कृत्वा शुद्धोदयेन भजेत् फलमंशादिग्राह्यं ततोऽशुद्धराशेः पूर्व यावन्तो मेषाद्या राशयस्तत्संख्यायां मूर्ध्नि युक्तं सद्राश्याद्यं लग्नं स्यात्, ततोऽयनांशहीनं कार्यम्, तत्स्पष्टलग्नं स्यात्, ग्रहाणां तात्कालिकीकरणे विशेष उच्यते- षष्ट्या हता CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri