पृष्ठम्:करणकुतूहलम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (३५) मेषारिशशिषट्कस्थे सायनेर्के: ऋणमृणरूपं भवति चरं याम्यगोले तुलादिषट्के स्वं धनरूपम्, अथ पूर्वागतैश्चरपलैर्ग्य- हस्य गतिर्गुण्या षष्ट्या भाज्या लब्धं विकला औदयिके स्वमृणमिति पूर्वोक्तवद्धनरूपत्वेन धनमृणरूपत्वेनर्णं विधेयं ग्रहे, अस्तकाले तु व्यस्तं धनत्वमृणमणत्वं धनमेवं चरकर्म- संस्कृतो ग्रहः स्यात्, अस्य किमपि विशेषान्तरमुच्यते; औ- दयिके धनर्णं यथागतं कुर्यात्, अस्ते व्यस्तं कुर्यात, मध्या- ह्ने मध्यरात्रे च चरपलसंस्काराभावः दक्षिणोत्तरवृत्तस्यै- कत्वादित्येवावगन्तव्यं परन्त्वेषां चतुर्णां स्थानानां व्यवधान- स्थिते ग्रहे किं कार्यमित्युच्यते, उदयकालाद्वटीभिश्वाल्यते तस्य मध्याह्ने चास्तेप्यर्द्धरात्रे सर्वत्र तद्व्यवधानस्थे चौद- यिकवज्ज्ञेयं गत्यर्द्धं कत्वाऽस्तकालिकः कृतस्तस्माद्वटी- भिश्चालितस्य व्यस्तमेव सर्वत्र ज्ञेयं गतिचतुर्थाशं दत्त्वा पादोनां च दत्त्वा दक्षिणोत्तरवृत्तस्थं च कृत्वा तस्माद्यावदि- नावधि चाल्यते तत्र तस्यैव तत्फलाभाव इति ज्ञेयम् । अय- नांशाः १८ । १६ । १० गोमूत्रिकया सूर्यगत्या ५८ । ३५ गुणिता १०७० । १७ । ५ षष्टया भक्ता लब्धानि दिनानि १७ । ५० । १७ अथवा स्वद्विचत्वारिंशदंशेन । २६ । ५ गुणितोऽयनांशैः १८ । १६ । १० हीनः कार्यः १७ । ५० । ५ एभिर्दिनैर्मेषसङ्कमतः पूर्वदिनैर्मध्याह्ने द्वादशांगुलशंकोश्छाया शिवपुर्यामक्षभांगुलाद्या ५ । ३० . CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri