पृष्ठम्:करणकुतूहलम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- गणककुमुदकौमुदीटीकासमेतम् (३३) वर्द्धन्ते ततो मासद्वयं गतं तेन दश १० विकलाः युक्ता एवम- यनांशाः १८।१६ ।१० ॥१७॥ अथ पूर्व ये ग्रहाःसाधितास्ते मध्यमसावनोदयिका- स्तान् स्फुटसावनोदयिककरणायोदयान्तरं कर्मो- पजात्याह- द्विघ्नस्य दोर्ज्यां शरत्दृद्विलिप्ता भानोर्विधोः क्वक्षि- २१ त्दृताः कलास्ताः । स्वर्ण च युग्मौ जयदस्थि- तेऽर्के क्रमेण कर्मेत्युदयान्तराख्यम् ॥१८॥ द्विघ्नस्येति-तैरयनांशैर्युक्तस्य मध्यमार्कस्य द्विगुणस्य भुजज्या पञ्चभिः५भक्ता लब्धा विकला समविषमपदस्थिते सायनेऽर्क क्रमेण धनमृणं वा रवौ कार्यं समपदस्थे सायनेडर्के धनं कार्यं विषमपदस्थे सायनेऽर्के ऋणं सैव भुजज्यैकविंशतिभिः २१ भक्ता लब्धं कलादि सूर्यवच्चन्द्रे धनमृणं वा कार्यम् एतदुदयान्त- राख्यं कर्मापरेषामन्येषां स्वल्पान्तरत्वान्न कृतं यथायनांशैः१८ १६ । १० मध्यमोऽर्कः१।१।३३।२६ युतः १।१९।४९। ३६द्विगुणः ३।९।३९।१२ अस्य भुजः २।२०।२०। ४८ अस्य ज्या ११८।४ पञ्च ५ भक्ता लब्धा विकलाः २३ रवेरुदयान्तरं सायनोऽर्को विषमपदे तेन स्पष्टे रवावृणं कार्य- मेवमेपैव भुजज्या ११८॥ ४ एकविंशतिभिः २१ भक्ता लब्धं कलादि ५। ३७ सूर्यवत्स्पष्टे ३७ सूर्यवत्स्पष्टे चन्द्रे ऋणं कार्यम् ॥ १८॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri