पृष्ठम्:करणकुतूहलम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२४) करणकुतूहलम्। ज्याखण्डानि । २ ८ ५ २ 1 ३ २१ २० १९ १७ १५ १२ २१ ४१६० ७७ ९२१०४ ११३११८ १२० एतानि नव ज्याखण्डानि, यस्य ज्या साध्या तस्यांशाः कार्यास्तेभ्यो दशभिर्यावल्लब्धं तावन्ति भुक्तखण्डानि शेषमं- शादिभोग्येनाग्रिमखण्डेन गुणितं दशभिर्भक्तमाप्तं भुक्तखण्डा- नां पूर्वलब्धानामैक्यं युतं ज्या भवेत् यत्र दशभिर्भागो न लक्ष्यते तत्र प्रथमखण्डो भोग्यः ॥ ७ ॥ अथ धनुःकरणमुपजात्याह- विशोध्य खण्डानि दशघ्नशेषादशुद्धलब्धं धनुरंश- काद्यम् । विशुद्धसंख्याहतदिग् १० युतं स्याद्व्य- स्तैर्दलैर्व्य॑स्तधनुर्ज्य॑के स्तः॥८॥ यस्य ज्यायां धनुः साध्यते तस्या आद्यखण्डादाभ्य यावन्ति खण्डानि शुध्यन्ति तावन्ति विशोध्य शेषाद्दश १० गुणादशुद्धखण्डेन भक्ताल्लब्धं तद्विशुद्धसंख्यया गुणितैर्दशभि- १०र्युतमंशाद्यं धनुः स्यात्, अथ व्यस्तैर्वैपरीत्येन स्थितैर्दलै- रेवं खण्डाः २।५।९।१२।१५ । १७ । १९ । २० । २१ । यथोक्तविधिनोत्कमधनुरुक्तं ज्या च स्यात्, परमत्र प्रयोजनमनयोर्नास्ति, प्रसङ्गादुक्तम् । अथाल्पान्तरत्वा- ल्लाघवायाचार्येणोक्तमपि भोग्यखण्डस्पष्टीकरणं सिद्धान्त- शिरोमणी-"यातैष्ययोः खण्डकयोर्विशेषः शेषांश- - CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri