पृष्ठम्:करणकुतूहलम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१५१ ) वत् ।अथ चक्राद्य इति क्षेपकरहितयोर्मध्यमार्कतमसोर्मध्यसूर्य- रहितयोर्मध्यमार्कतमसोर्मध्यसूर्यपातयोगणाद्यो योगो द्विघ्नः द्विगुणीकृतः द्वियुक्तः कार्यः सप्तभिर्भाज्यः शेषं तेन गता वर्त- मानस्य राश्याद्यं भुक्तं ब्रह्मादिकः पर्वेशः ब्रह्मशशीन्द्रकुबे- रवरुणाग्नियमाश्च पर्वेशा इति यथा चन्द्रग्रहणे क्षेपरहितो भगणाद्यो रविः ४३७।६।०।५९।३८ पातः २३।६ १४।३८।२५ अनयोर्योगः ४६११०।१५।३८।३ द्वि- गुणः ९२२।०।३३।१६।६ द्वियुक् ९२४ सप्त ७ भक्तं शेषम् ० ब्रह्मतो गणनया सप्त गताः ब्रह्मा पर्वेशः सूर्यग्रहणे भगणादिरविः ४१७।४।१।२१।१३ पातः २२ ५।९।२४।१८ अनयोर्योगः ४३९।९।१०।४५।३१ द्विगुणः ८७९।६।२१।३१।२ द्वियुक् ८८१।०।४३।२। ४ सप्त ७ भक्ते शेषम् ६ पर्वेशो यमो ज्ञेयः ॥ ३ ॥ अथ ग्रन्थकृत्स्वनामपूर्वकवर्णनमाह- आसीत्सज्जनधानि गेहविवरे शाण्डिल्यगोत्रो द्विजःश्रौतस्मार्तविचारसारचतुरःसौजन्यरत्नाकरः। ज्योतिर्वित्तिलको महेश्वर इति ख्यातः क्षितौ स्वैर्गु- णैस्तत्सूनुःकरणं कुतूहलमिदं चक्रे कविर्भास्करः॥४॥ इतीह भास्करोदिते ग्रहागमे कुतूहले। विदग्ध-बुद्धिवल्लभे रवीन्दुपर्वसम्भवः ॥१०॥ - CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri