पृष्ठम्:करणकुतूहलम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२२) करणकुतूहलम्। तदेवान्तरं चतुर्विंशतिभि २४ र्भक्तं हस्ता भवन्ति यथा पूर्वा- गतदिनादिभिः 0। १४ । ५६ चालितौ जातौ समौ गुरुः ११।१६। ३६। १५ शुक्रः ११ । ३६ । ३६ । १५ जातावेतत्कालीनौ पुनः स्पष्टौ कृत्वा शरौ साध्यावत्र स्वल्पत्वात् पुराकृतशीघ्रफलं मंदफलं ताभ्यां शरौ साध्येते स्वचञ्चलफलैरित्यादिना शरः साध्यते गुरुपातः ९।८। 0। ० शीघ्रफलेन ७।४२ । ३१ व्यस्तः संस्कृतः धनत्वात्पाते हीनः जातो गुरोः स्पष्टपातः ९ । ० । १७ । ३२ स्पष्टगुरुणा ११ । १६ । ३६ । १५ युतोजातः सपातः ८।१६। ५३ । ४४ अस्य भुजज्या ११६।२६ क्षेपेण ७६ गुणा ८८४८ । ५६ कर्णेन १३५ भक्ता ६५। २६ विभक्ताङ्गुलाद्यः शरः २१ । ४८ सपातो दक्षिणगोले तेन दक्षिणशरः शुक्रस्य पातः १० । ० । । मन्दफलेन १ । ३१ । ११ युतः १० । १ । ३१ । ११ शीघ्रोच्चेन ८ ।२०। ४९ । ५२ युतः ६ । २२ । २१। ३ भुजज्या ४५। २८ क्षेपेण १३६ गुणिता ६१८३ । २८ कर्णेन ८९ । २३ भक्ता ६९ । १० त्रिभक्ता २३ । २३ अङ्गुलादिशरो याम्यः । अथ लक्षणान्तरं ज्ञेय- मिति यस्य ग्रहस्य दक्षिणशरः स दक्षिणस्थो ज्ञेयः यस्य सौम्यः स उदस्थो ज्ञेयः शरयोर्दिक्साम्ये यस्याल्पशरः स इतरग्रहाद्बृहच्छरग्रहादन्यदिक्स्थो ज्ञेयः अथ । CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri