पृष्ठम्:करणकुतूहलम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(११०) करणकुतूहलम् । १०।१०।५३।५६ गतिः६०।२८ चन्द्रः५।२६।५०।५४ गतिः ८५५।३५ पातः०।१।२७।२३ गतिः ३।११ अङ्गुलाद्यः शरः सौम्यः २।५५ प्रागुदयविलोकनाय वित्रिभ- चन्द्रः२।२६।५।५४ कान्तिरुत्तरा २३।८।५५ अक्षांशा याम्याः २४।३५।९ नतांशा याम्याः १।२६।३४ उक्तव- दृक्फलमृणम् ८।१३ दृक्कर्मसंस्कृतश्चन्द्रः ५।२६।५।४१ अयं प्राग्दृग्ग्रहः इदं चन्द्रस्योदयलग्नमीदृशे लग्ने क्षिति- जस्थे चन्द्रस्योदयः । उक्तं च-"निजनिजोदयलमसमुद्गमे समुदयेऽपि भवेद्भनभःसदाम् । भवति चास्तविलग्नसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहनमात्" इत्युदयाद्गतनाडिकानयनम् । अथास्तकाल इष्टलग्नम्४।१०।५३।५६स्पष्टसूर्यमध्ये राशि- षट्कयुक्तेऽस्तकाल इष्टलग्नं भवतीत्युदयलग्नं च ५।२६।५०। ४१ अनयोरन्तरकाल ऊनस्य भोग्योऽधिकभुक्तयुक्तो मध्यो- दयाढ्यः समयो विलग्नादिति प्रकारेण सायनोदयलग्नेष्टलग्नयो- रन्तरकालघटी ८.३०समयेऽस्तागते पूर्वस्यां चन्द्रोदयो भवि- ष्यतीत्युक्तं च-'प्राग्दृग्ग्रहोऽल्पोऽत्र यदीष्टलग्नाद्गतो गमिष्य- त्युदयं बहुश्चेत् । ऊनाधिक पश्चिमदृग्ग्रहश्चेदस्तो गतो यास्यति चेति वेद्यम् । तदन्तरोत्था घटिका गतैयास्तच्चालितः स्यात्स निजोदयोऽस्तः” इत्येवं सर्वेषां प्रत्यहमुदयास्तौ साध्यौ॥१५॥ इति करणकुतूहलवृत्तौ गणककुमुदकौमुद्यामुदयास्तविवेचनं विहितमित्युदयास्ताधिकारः ॥ ६ ॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri