पृष्ठम्:करणकुतूहलम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१०२) करणकुतूहलम् । शिनः १३६ खत्रीन्दवो १३० लिप्तिकाः । खेटात्पातयुतात्तथा ज्ञसितयोः शीघ्रोच्चतो दो- र्ज्यंका क्षेपघ्नी चलकर्णहत्रिवित्दृता स्यादड्गुलाद्यः शरः॥१०॥ भौमस्य विक्षेपः शरः कलात्मकदशोत्तरशतम् ११० एवं बुधस्य १५२ गुरोः ७६ भृगोः १३६ शनेः१३० अथ शरसाधनम् । खेटादिति । स्फुटग्रहः स्वीयस्फुटपातेन युक्तः कार्यः बुधशुक्रयोस्तु स्वशीघ्रोच्चं स्वीयस्फुटपातेन युतं कार्य ततः सपातस्य ग्रहस्य भुजज्या स्वस्वशरण गुण्या स्वस्वशीघ्रकर्णन भक्ता लब्धं कलात्मकं त्रिभिक्तिमङ्गलात्मकं शरो भवति स च सपातग्रहदिक। यथा स्पष्टो बुधः1।७।२७। ६ गतिः १०।३।२८ मन्दफलं धनम् ०।१५।७ शीघ्रोच्चम् ३।४।५७।१६ शीघ्रकेन्द्रम२।३।२८।४३गतिः१८०।२४ कर्णः १४५।१५ अथ पातः ११।९।०।० मन्दफलेन धन- रूपेण ०।१५।७ युतो जातः स्पष्टः पातः ११।९।१५।७ शीघ्रोच्चेन ३।४।५७।१६ युतस्य २।१४।१२।२३ भुजज्या ११५।६ शरेण १५२ गुणिता १७४८५।१२ कर्णन १४५।१४ भक्ता लब्धं कलादिशरः १२०।२७ सपातशी- घ्रोच्चमुत्तरगोले तेनोत्तरविभक्तोङ्गुलादिः४०।९ शरः ॥१०॥ अथायनाक्षजदृक्कर्मद्वयमपि लाघवार्थमैक्यत्वेन शार्दूलविक्रीडितत्रयेणाह- प्राक्पश्चात्रिभहीनयुक्तखचरक्रान्त्यक्षतोंऽशा नताः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri