पृष्ठम्:करणकुतूहलम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(९८) करणकुतूहलम् । अयोदयास्तसम्भवज्ञानं भौमगुरुशनीनामुपजात्याह- प्राच्यामुदेति क्षितिजोऽष्टदौः शक्रैर्गुरुःसप्तकुभिश्च मन्दः । स्वस्वोदयांशोनितचक्रभागैस्त्रयो व्रजंत्य- स्तमयं प्रतीच्याम् ॥६॥ प्राच्यामिति । भौमोष्टाविंशत्या २८ स्थितैः केन्द्रांशकैः प्राच्यामुदेति तथा गुरुश्चतुर्दशभिः १४ शनिः सप्तदशभिः१७ अथोदयांशैश्चक्रांशेभ्यः ३६० शोधितैस्तत्तद्ग्रहस्य प्रतीच्या- मस्तमयो भवति तद्यथा भौमो द्विदेवैः ३३२ जीवोऽङ्गवेदा- ग्निभिः ३४६ शनिस्त्रिवेददहनैः ३३४ प्रतीच्यामस्तमेति । उक्तं च “रवेरूनभुक्तिर्ग्रहः प्रागुदेति प्रतीच्यामसावस्तमेत्यन्य- थान्यः" ॥६॥ " अथ बुधशुक्रयोरुदयास्तज्ञानं वसन्ततिलकेनाह- खाक्षै: ५० र्जिने २४ र्ज्ञसितयोरुदयः प्रतीच्या- मस्तश्च पञ्चतिथिमि १५५ र्मुनिसप्तभूभिः १७७॥ प्रागुद्गमः शरनखै २०५ स्त्रिधृतिप्रमाणे १८३ रस्तश्च तत्र दशवह्निभि ३१० रङ्गदेवैः ३३६॥ ७॥ पञ्चाशद्भिः शीघकेन्द्रांशैर्बुधस्य प्रतीच्यामुदयः; चतुर्वि- शद्भिः १४ शुक्रस्य, पञ्चपञ्चाशदुत्तरशतेन १५५ बुधस्य प्रतीच्यामस्तः, सप्तसप्तत्युत्तरशतेन १७७ शुक्रस्य पश्चिमाया- मस्तः । अथ बुधस्य पञ्चोत्तरद्विशत्या २०५ प्राच्यामुदयः, शुक्रस्य त्र्यशीत्युत्तरशतेन १८३ प्राच्यामुदयः, बुधस्य दशो- " CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri