पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः गतघनापदमाप्य धृतोदयं सपदि चन्द्रमखण्डितमण्डलम् । अकलुषत्वमलम्बितमां तमोदलनलालनलासिजलैरपि ॥ ४ ॥ प्रववृते परितः परिचुम्बितुं कुमुदकाननमुन्मुखरागवत् । शिशिररश्मिमुखेन शरत्प्रिया विलसदंशुसदंशुकशोभिना ।। ४२ ।। अघटयन्मदनस्य सरोगृहे शरदसावभिषेकमहोत्सवम् । रुचिररुच्यसितरिव सारसै सकलशे कलशेवलमालिके॥ ४३।। शुकततिः श्रुतपालिवधूलसल्ललिततालचलद्वलयस्वना । चकितमभ्यचरत् कपिशङ्किनी दशदिशः शदिशन्त महीतला ॥४४॥ गिरिगुरुश्रुतिशालिमहोदयः कृतिसमाज इवाप्रतिभावताम् । अपजहार चिरस्य शिखण्डिनां ध्वनिबलानि बलाहकसंक्षयः ॥ ४५ ॥ विदलिते सपदि प्रतिबन्धके रविरदीपितरां घनमण्डले । के इव वा न धृतप्रचये रिपो नवहते बहते द्युतिमुज्ज्वलाम् ।। ४६ ।। अतिचलञ्जलदोत्थमुपल्लवं सरभसं परितः परिषध्वजे । प्रियसखीव शुचिस्मितशोमिनी सुकुसुदा कुमुदारफलां शरत् ।। ४७॥ मदनकेतनकेतकिनी शरच्छिदुरसादरसादभितोऽकरोत् । स्थलगता जगतो जलगास्तथा सरजसारजसा द्विविधाः श्रियः ।। ४८ ॥ भवति यत्र परस्परभागिनी मृगदृशां स्तनमण्डलसोष्मता । स समयः समयादथ हैमनो जनवशी नवशीतसमीरणः ॥४९॥ अमितमभ्यसितुं शरदत्ययः शशधरादिव शीतलताश्रियम् । रभसयन्दयिताङ्कधृतं वधूजनमदीनमदीर्घयत क्षपाः ॥ ५० ॥ हिमसमीररणदृशनाः शनैः सुभगशीत्कृतशैत्यधुताधराः । प्रणयिनां सुदृशः सहसाऽपतन्नुरसि तारसितानुपमस्मिताः ।। ५१ ।। 41,42,44,M3 omits. 468,M3: विचलिते for विदलित 49aMg परस्परमाषिणी for परस्परभागिनी 50 M3 omits.