पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ कपिफणाभ्युदयं महाकाव्यम् । प्रथमः सर्गः

सर्वज्ञतादिगुणगोचरमाययौ या ध्येया यतोऽपि यतिबन्धुरबोधि बोधिः । सा सत्यनिर्धुतचतुर्विधविभ्रमार्ति- मूर्तिर्दृशां दिशतु दाशबली शिवं वः ॥ १ ॥ अस्ति प्रथा परमदैत्यसुखायनान्त:- स्यूता गजाननगुहावसिताऽधिविन्ध्यम् । लीलावतीति नगरी कलितापदाना दुर्गेव भावितरणा हरिणाङ्कनेन ॥ २॥ या तुङ्गसौधतलकीलितकेतुदण्ड- पण्डैर्जवाज्जलमुचामभिपाटितानाम् ।1-The manuscript De begins with stanza 1. In N the first folio is lost and the poem begins with stanza 125. The transcript M begins with the third stanga, The tran- script M3 begins with stanza I bas in tbe beginning inget नम: Mhas श्रीकृष्णाय नमः, MS hes श्रीकृष्याः शरणम् । Mis riot clear on in Bad It seems to read a OMS-Teads सामन्त्य for सा सत्य 2a,M. reads नाभिःभान्त:- नाभि- is suggested.