पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २। ]
८७
नरवाहनदतजननलम्बुकः ४ ।

ततोऽन्येद्युः प्रतिपदं तत्तदुकलिकाभृता । प्रत्युद्गतेव मनसा मम तन्मार्गेधाविना ॥ १०५

चक्षुषा दक्षिणेनापि सूचितागमनामुना । दिदृक्षयेव स्फुरता सा कन्यात्रागताभवत् ॥ १०६

सटालसिंहपृष्ठस्था सुधृष्टा मया च सा । शरदम्भोधरोत्सङ्गसङ्गिनीवैन्द्वी कळा ॥ १०७

विलसद्विस्मयौत्सुक्यसाध्वसं पश्यतश्च तम् । ममावसेत तरकालं न जानं हृद्यं कथम् ॥ १०८

अथावतीर्यं सिंहासा पुष्पाण्युचित्य कन्यका। स्नात्वा सरसि तत्तीरगतं हरमपूजयत् ॥ १०९

पूज़ाबसाने चोपेत्य स सखा शबरो मम । प्रणम्यात्मानमावेध तामवोचद्युताद्शम् ॥ ११०

आनीतः स मया देवि सुहृद्योग्यो वरस्तव । मन्यसे यदि तन्तुभ्यं दर्शयास्यधुनैव तम् ॥ १११

तच्छुत्वा दर्शयेत्युक्ते तया स शबरस्ततः । आगत्य निकटं नीत्वा मां तस्याः समदर्शयत् ॥ ११२

सापि मां तिर्यगालोक्य चक्षुषा प्रणयनुत। मदनावेशवशगा शबरेशं तमभ्यधात् ॥ ११३

सखा ते 'मानुषो नायं कामं कोऽप्ययमागतः । मद्वचनाय देवोऽथ मर्यस्यैषाकृतिः कुतः ॥ ११४

तदाकण्यक्तवानस्मि तां प्रत्याययितुं स्वयम् । सस्यं सुन्दरि मर्योऽहं किं व्याजेनार्जवे जने ॥ ११५

अहं हि सार्थवाहस्य वलभीवासिनः सुतः । महधनाभिधानस्य महेश्वरवराजितः ॥ ११६

तपस्यन्स हि पुत्रार्थमुद्दिश्य शशिशेखरम् । समादिश्यत तेनैवं स्वप्ने देवेन तुष्यता ॥ ११७

उत्तिष्ठोत्पत्स्यते कोऽपि महात्मा तनयस्तय । रहस्यं परमं चैतद्द्वमुक्त्वात्र विस्तरम् ॥ ११८

एतच्छुत्वा प्रबुद्धस्य तस्य कालेन चात्मजः । अहमेष समुत्पन्नो वसुदत्त इति श्रुतः ॥ ११९

अयं च शबराधीशः स्वयंवरसुहृन्मया। देशान्तरगतेन प्राक्प्राप्तः क्षुच्छंकबान्धवः ॥ १२०

एष मे तत्त्वसंक्षेप इत्युक्त्वा विरते मयि । अभTषतथ कन्या सा लज्जयावनतानना ॥ १२१

अस्त्येतन्मां च जानेऽद्य स्वप्नेऽर्चितवतीं हरः । प्रातः प्राप्स्यसि भर्तारमिति तुष्टः किलादिशत् ॥ १२२

तस्मात्त्वमेव मे भर्ता भ्रातायं च भवत्सुहृत् । इति बाक्सुधया स मामनन्द्य विरताभवत् ॥ १२३

संमत्याथ तया साकं विवाहाय यथाविधि । अकर्ष निश्चयं गन्तुं समित्रोऽहं निजं गृहम् ॥ १२४

ततः सा सिंहमाहूय बाइनं तं स्वसंज्ञया । अत्रारोहपुत्रेति मासभाषत सुन्दरी ॥ १२५

अथाहं तेन सुहृदानुयातः शबरेण तम् । सिंहमारुह्य दयितमुत्सद्धे तां गृहीतवान् ॥ १२६

ततः प्रस्थितवानस्मि कृतकृत्यो निजं गृहम् । कान्तया सह सिंहस्थो मित्रे तस्मिन्पुरःसरे ॥ १२७

तदीयशरनिर्भिन्नहरिणामिषवृत्तयः । क्रमेण ते वयं सर्वे संप्राप्ता बळभीं पुरीम् ॥ १२८

तत्र समागतं दृष्ट्वा सिंहारूढं सवल्लभम् । सश्चर्यस्तहुतं गत्वा मम पित्रेऽब्रवीज्जनः ॥ १२९

सोऽपि प्रत्युद्गतो हर्षावतीर्ण मृगेन्द्रतः। पादावनत्रं दृष्ट्वा मामभ्यनन्दत्सविस्मयः ॥ १३०

अनन्यसदृशीं तां च कृतपादाभिवन्दनाम् । पश्यन्मोचितां भार्यां न भाति स्म मुदा कश्चित् ॥ १३१

रं चास्मान्वृत्तान्तं परिपृच्छय च । प्रशंसञ्शबराधीशसौहार्द चोत्सयं व्यधात् ॥ १३२

ततो मौहूर्तिकादेशादन्येद्युर्वरकन्यका । सा सया परिणीताभूनिमलिसाखिलबन्धुना ॥ १३३

तदालोक्य च सोऽकस्मान्मद्ववाहनस्त । सिंहः सर्वेषु पश्यत्सु संपन्नः पुरुषाकृतिः ॥ १३४

किमेतदिति विभ्रान्ते जने तत्र स्थितेऽखिले । स दिव्यघनाभरणो नमन्मामेवमब्रवीत् ॥ १३५

अहो चित्राङ्गदो नाम विद्याधर इयं च मे । सुता मनोवती नाम कन्या प्रणाधिकप्रिया ॥ १३६

एतामी खदा कृत्वा विपिनेन भ्रमन्नहम्। प्राप्तवानेक गङ्गां भूरितीरतपोवनम् ॥ १३७

तपस्विलङनत्रासात्तस्या मध्येम गच्छतः । अपतन्मम दैवाच पुष्पमाळ तदम्भसि ॥ १३८

ततोऽकस्मात्समुत्थाय नारदोऽन्तर्जलस्थितः । पृष्ठे तया पतितया कुछ मामशपन्मुनिः ॥ १३९

औौद्धत्येनामुन if पाप गच्छ सिंहो भविष्यसि । हिमाचले गतश्चैतां सुतां पृष्ठेन वक्ष्यसि ॥ १४०

यदा च मानुषेणैषा सुता ते परिणेष्यते । तदा तद्दर्शनादेव शापादस्माद्विमोक्ष्यसे ॥ १४१

इत्यहं मुनिना शप्तः सिंहीभूय हिमाचले । अतिष्ठं तनयामेतां हरपूजापरां बहन् ॥ १४२

अनन्तरं यथा यत्नच्छबराधिपतेरिदम् । संपन्नं सर्वकल्याणं तथा बिदितसेव ते ॥ १४३