पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
[ आदितस्तरङ्गः २
कथासरित्सागरः ।

तत्र तस्मिन्स्थिते प्राग्वत्कालरात्रिरुपेत्य सा । तथैवोपस्य हर्यस्था व्योम्नैवोज्जयिनीं ययौ ॥ १६०

तत्रावतार्य मन्त्रेण गोवाटं शाकवाटके । जगाम रात्रिचर्चायै पुनः सा पितृकाननम् ॥ १६१

तं च सुन्दरको सत्रं भूयः श्रुत्वापि नाप्रहीत् । विना हि गुर्वादेशेन संपूर्णाः सिद्धयः कुतः ॥ १६२

ततोऽत्र भुक्त्वा कतिचिन्मूलकान्यपराणि च में नेतुं प्रक्षिप्य गोवाटे तत्र तस्थौ स पूर्ववत् ॥ १६३

अथैत्यारूढगोवाटा सा गत्वा नभसा निशि । बिश कालरात्रिः स्वं सद्म स्थापितवाहना ॥ १६४

सोऽपि सुन्दरकः प्रातर्रवादान्निर्गतस्ततः । ययौ भोजनमूल्यार्थी विपणीमात्तमूलकः ॥ १६५

विक्रीणानस्य तस्यात्र मूलकं राजसेवकाः । मालवीया विना मूल्यं जहुईंधू स्वदेशजम् ॥ १६६

ततः स कलहं कुर्वन्बह्नो सुहृद्वङ्गतः । पाषाणघातयीति राजधं तैरनीयत ॥ १६७

मालवात्कथमानीय कान्यकुब्जेऽत्र मूलकम् । विक्रीणीषे सदेयेष पृष्टोऽस्माभिर्न जल्पति ॥ १६८

इन्ति प्रत्युत पाषाणैरित्युक्तस्तैः शत्रुर्थोपः। तं तदद्भुतमप्राक्षीत्ततस्तत्सुहृदोऽब्रुवन् ॥ १६९

अस्माभिः सह यथेष प्रासादमधिरोप्यते । तदेतस्कौतुकं देव कृत्तं जल्पति नान्यथा ॥ १७०

तथेत्यारोपितो राज्ञा सप्रासादोऽस्य पश्यतः। उपपात स मन्त्रेण सद्यः सुन्दरको नभः ॥ १७१

समित्रस्तेन गवा च प्रयगं प्राप्य च क्रमात् । अन्तः कमपि राजानं स्नान्तं तत्र ददर्श सः ॥ १७२

संस्तम्भ्य चात्र प्रासादं गङ्गायां खान्निपत्य च । विस्मयोद्दीक्षितः सर्वैस्तं स राजानमभ्यगात् ॥ १७३

कस्त्वं किं चावतीणोंऽसि गगनादिति शंस नः । राज्ञा प्रद्रेण पृष्टः सन्नेवं सुन्दरकोऽब्रवीत् ॥ १७४

अहं मुरजको नाम गणो देवस्य धूर्जटेः । प्राप्तो मानुषभोगार्थं त्वत्सकाशं तदाज्ञया ॥ १७५

तच्छुत्वा सत्यमाशङ्कय सस्याढ्यं रत्नपूरितम् । सस्त्रीकं सोपकरणं ददौ तस्मै पुरं नृपः ॥ १७६

प्रविश्याथ पुरे तस्मिथुत्पत्य दिवि सानुगः । चिरं सुन्दरकः स्वेच्छे निर्दैन्यं विचचार सः ॥ १७७

शयानो हेमपर्यङ्क वीज्यमानश्च चामरैः । सेव्यमानो वरस्त्रीभिरैन्द्रं सुखमवाप सः ॥ १७८

अथैकदा ददौ तस्मै सत्रं व्योमावरोहणे । सिद्धः कोऽपि किलाकाशचारी संजातसंस्तवः ॥ १७९

प्राप्तवतारमब्रः स गत्वा सुन्दरकस्ततः। कान्यकुब्जे निजे देशे व्योममार्गादवातरत् ॥ १८०

सपुरं पूर्णलक्ष्मीकमवतीर्णे नभस्तलात् । बुद्धा तत्र स्वयं राजा कौतुकात्तमुपाययौ ॥ १८१

परिज्ञातश्च पृष्टश्च राजाज्ञे सोऽथ कालवित् । कालरात्रिकृतं सर्वं स्ववृत्तान्तं न्यवेदयत् ॥ १८२

ततश्चानाय्य पप्रच्छ कालरात्रिं महीपतिः । निर्भया साप्यविनयं स्वं सर्वं प्रत्यपद्यत ॥ १८३

कुपिते च नृपे तस्याः कणौ च च्छेत्तुमुद्यते । सा गृहीतापि पश्यत्सु सर्वेष्वेव तिरोदधे ॥ १८४

ततः स्वराष्ट्रे वासोऽस्यास्तत्र राज्ञा न्यषिध्यत । तत्पूजितः सुन्दरकः शिश्रिये च नभः पुनः ॥ १८५

इत्युक्त्वा तत्र भर्तारमादित्यप्रभभूपतिम् । अभाषत पुनश्चैनं राज़ी कुवलयावली ॥ १८६

भवन्त्येवंविधा देव डाकिनीमश्रसिद्धयः । एतच्च मत्पितुर्दशे वृत्तं सर्वत्र विश्रुतम् ॥ १८७

कालरात्रेश्च शिष्याहमित्यादौ वणितं मया । पतिव्रतत्वात्सिद्धिस्तु ततोऽप्यभ्यधिका मम ॥ १८८

भवता चाद्य दृष्टाहं श्रेयोऽर्थं ते कृतार्चना। उपहाराय पुरुषं मन्त्रेणाक्रटुमुद्यता ॥ १८९

तदसदीयेऽत्र नये त्वपि प्रविशधुना । सिद्धियोगजितानां च राज्ञां मूर्ति पदं ॥ १९०

तच्छुत्वा क महामांसभोजनं डाकिनीनये । क च राजत्वमित्युक्स्वा स राजा निषिषेध तत् ॥ १९१

प्राणत्यागोद्यतायां तु राज्यां तत्प्रत्यपद्यत । विषयाकृष्यमाणा हि तिष्ठन्ति सुपथे कथम् ॥ १९२

ततः सा तं प्रवेश्यैव मण्डले पूर्वपूजिते । गृहीतसमयं सन्तं राजानमिदमब्रवीत् ॥ १९३

य एष फलभूत्याख्यः स्थितो विप्रतवान्तिके । स मयात्रोपहारार्थमाझ्टुमुपकल्पितः ॥ १९४

आकर्षणं च सायासं तत्कश्चिसूपकृद्वरम् । नयेऽत्र स्थाप्यतां यस्तं स्वयं हन्ति पचत्यपि ॥ १९५

न कायो च घृणा यस्मात्तन्मांसबलिभक्षणात् । समापितेऽर्चने पूर्णा सिद्धिः स्यादुत्तमो हि सः ॥ १९६

इत्युक्तः प्रियया राजा पापभीतोऽपि तत्पुनः । अङ्गीचकार धिगहो कष्टां स्त्रीष्वनुरोधिताम् ॥ १९७

आनाय्य सूपकारं च ततः साहसिकाभिधम् । विश्वास्य दीक्षितं कृत्वा दंपती तौ सहोचतुः ॥ १९८

राजा देवीद्वितीयोऽद्य भोक्ष्यते तत्त्वजं कुरु। आहारस्येति योऽभ्येत्य त्वां ब्रूयात्तं निपातयेः ॥ १९९