पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
[आदितस्तरङ्गः २० ।
कथासरित्सागरः ।

गत्वा च स्वोष्मणा सोऽग्निर्निवार्यं सुरताच्छिवम् । शापभीत्या प्रणम्यास्मै देवकार्यं न्यवेदयत् ॥ ८०

शर्वोऽप्यारूढवेगोऽग्नौ तस्मिन्वीर्यं स्वमाद्धे । तद्धि धारयितुं शक्तो न वह्निर्नाम्बिकापि वा ॥ ८१

न मया तनयस्त्वत्तः संप्राप्त इति वादिनीम् । खेदकोपाकुलां देवीमित्युवाच ततो हरः ॥ ८२

विनोऽत्र तव जातोऽयं विना विग्नेशपूजनम् । तदर्चयैनं येनाशु वह्नौ नो जनिता सुतः॥ ८३

इत्युक्ता शंभुना देवी चक्रे विनेश्वरार्चनम् । अनलोऽपि सगर्भाऽभूतेन वीर्येण धूर्जटेः॥ ८४

तत्तेजः शांभवं बिभ्रत्स तद् दिवसेष्वपि । अन्तःप्रविष्टतिग्मांशुरिव सप्तार्चिराबभौ ॥ ८५

उद्वाम च गङ्गायां तत्तेजः सोऽथ दुर्धरम् । गर्जुनमत्यजन्मेरौ वह्निकुण्डे हराज्ञया ॥ ८६

तत्र संरक्ष्यमाणः सन्ख गर्भः शांभवैर्गणैः। निःसृत्याब्दसहस्त्रेण कुमारोऽभूत्षडाननः ॥ ८७

ततो गौरीनियुक्तानां कृत्तिकानां पयोधरान् । षण्णां षभिर्मुखैः पीत्या स्वपैः स ववृधे दिनैः ॥ ८८

अत्रान्तरे देवराजस्तारकासुरनिर्जितः । शिश्रिये मेरुशृङ्गाणि दुर्गाण्युज्झितसंगरः ॥ ८९

देवश्च साकमृषिभिः षण्मुखं शरणं ययुः। षण्मुखोऽपि सुरान्रक्षन्नासीतैः परिवारितः ॥ ९०

तद्वद् हारितं मत्वा राज्यमिन्द्रोऽथ चुक्षुभे । योधयामास गत्या च कुमारं स समत्सरः॥ ९१

ततृआभिहतस्याङ्गात्षण्मुखस्योद्वभूवतुः । पुत्रौ शाखविशाखाख्यावुभावतुलतेजसौ ॥ ९२

सपुत्रं च तमाक्रान्तशतक्रतुपराक्रमम् । उपेत्य तनयं शर्वः स्वयं युद्धादवारयत् ॥ ९३

जातोऽसि तारकं हन्तुं राज्यं चेन्द्रस्य रक्षितुम् । तत्कुरुष्व निजं कार्यमिति चैनं शशास सः ॥ ९४

ततः प्रणम्य प्रीतेन तत्क्षणं वृत्रवैरिणा । सैनापत्याभिषेकोऽस्य कुमारस्योपचक्रमे ॥ ९५

स्वयमुत्क्षिप्तकलशस्तब्धबाहुरभूद्यदा । ततः शक्रः शुचमगाद्यैनमवच्छिवः ॥ ९६

न पूजितो गजमुखः सेनान्यं वाञ्छता त्वया । तेनैष विघ्नो जातस्ते तस्कुरुष्व तदर्चनम् ॥ ९७

तच्छुत्वा तत्तथा कृत्वा मुक्तबाहुः शचीपतिः। अभिषेकोत्सवं सम्यक्सेनन्ये निरवर्तयत् ॥ ९८

ततो जघान न चिरास्सेनानीस्तारकासुरम् । ननन्दुः सिद्धकार्याश्च देवा गौरी च पुत्रिणी ॥ ९९

तदेवं देवि देवानामपि सन्ति न सिद्धयः। हेरम्बेऽनचिते तस्मात्पूजयैनं वरार्थिनी ॥ १००

इत्युक्ताहं वयस्याभिरुद्यानैकान्तवर्तनम् । आर्यपुत्र पुश गत्वा विन्नराजमपूजयम् ॥ १०१

पूजावसाने चापश्यमकस्माद्गनाङ्गणे । उत्पत्य विहरन्तीस्ताः स्वसखीर्निजसिद्धितः ॥ १०२

तदृष्ट्वा कौतुकाव्योम्नः समाहूयावतार्य च । मया सिद्धिस्वरूपं ताः पृष्टाः सद्योऽब्रुवन्निम् ॥ १०३

इमा नृमांसाशनजा डाकिनीमसिद्धयः । कालरात्रिरिति ख्याता ब्राह्मणी गुरुरत्र नः ॥ १०४

एवं सखीभिरुक्ताहं खेचरीसिद्धिलोलुभा । नृमांसाशनभीता च क्षणमासं ससंशया ॥ १०५

अथ तत्सिद्धिलुब्धत्वादवोचं ताः सखीरहम्। उपदेशो ममाप्येष युष्माभिर्दाप्यतामिति ॥ १०६

ततो मद्भ्यर्थनया गत्वा तत्क्षणमेव ताः । आनिन्युः कालरात्रिं तां तत्रैव विकटाकृतिम् ॥ १०७

मिळद्भवं काचराक्ष न्यञ्चचिपिटनासिकाम् । स्थूलगण्डीं करालोष्ठीं दन्तुरां दीर्घकंधराम् ॥ १०८

छस्बर्तनीमुदरिणीं विदीर्योत्फुल्लपादुकाम् । धात्रा वैरूप्यनिर्माणवैदग्धीं दर्शितामिव ॥ १०९

सा मां पादानतां स्नातां कृतविघ्नेश्वरार्चनाम् । विवस्त्रां मण्डले भीमां भैरवाचमकारयत् ॥ ११०

अभिषिच्य च सा मद्य तांस्तान्मत्रान्निजान्ददौ । भक्षणाय नृमांसं च देवार्चनबलीकृतम् ॥ १११

आत्तमत्रगणा भुक्तमहामांसा च तत्क्षणम् । निरम्बरैवोत्पतिता ससखीकाहमम्बरम् ॥ ११२

कृतक्रीडावतीर्याथ गगनाहुर्वनुज्ञया । गतावमहं देव कन्यकान्तःपुरं निजम् ॥ ११३

एवं बाल्येऽपि जाताहंडाकिनीचक्रवर्तिनी । भक्षितास्तत्र चास्माभिः समेत्य बहवो नराः॥ ११४

अस्मिन्कथान्तरे चैतां महाराज कथां शय्णु । विष्णुस्वामीत्यभूत्तस्याः कालरात्र्याः पतिर्द्धजः ॥ ११५

स च तस्मिन्नुपाध्यायो देशे नानादिगागतान् । शिष्यानध्यापयामास वेदविद्याविशारदः ॥ ११६

शिष्यमध्ये च तस्यैको नाम्ना सुन्दरको युवा । बभूव शिष्यः शीलेन विराजितवपुर्णः ॥ ११७

तमुपाध्यायपत्नी सा कालरात्रिः कदाचन । बने रहसि कामाती पत्यौ कापि बहिर्गते ॥ ११८

नूनं विरूपैरधिकं हासनैः क्रीडति स्मरः । यत्सानवेक्ष्य स्वं रूपं चक्रे सुन्दरकस्पृहम् ॥ ११९