पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
[ आदितस्तरङ्गः १
कथासरित्सागरः

ख पतिमें गतः कापि रात्राविति च मातरम् । आत्मापराधसभया सानुतापा च साभ्यधात् ॥ २

ततस्तन्मातरि स्नेहात्संभ्रान्तायां क्रमेण तत् । बुढा राजापि तत्रैत्य परमाकुलतामगात् ॥

जाने श्मशानबाहुं तं गतोऽसौ देवतागृहम् । इत्युक्ते राजसुतया राजा तत्र स्वयं ययौ ॥

तत्र विद्याधरीविद्यप्रभावेण तिरोहितम् । विच्च्यािपि न लेभे तं स क्षितीशो विदूषकम् ॥

ततो राज्ञि परावृत्ते निराशां तां नृपात्मजाम् । देहस्यागोन्मुखीमेत्य ज्ञानी कोऽप्यत्रवीदिदम् ॥ २

नारिष्टशका कर्तव्या स हि ते वर्तते पतिः । युक्तो दिव्येन भोगेन त्वामुपैष्यति चाचिरात् ॥ २

तच्छुत्वा राजपुत्री सा धारयामास जीवितम् । हृदि प्रविष्टया रुद्रं तत्प्रत्यागमवाञ्छया ॥

विदूषकस्यापि ततस्तिष्ठतस्तत्र तां प्रियाम् । भद्रां योगेश्वरी नाम सखी काचिदुपाययौ॥

उपेत्य सा रहस्येनामिदं भद्रामथाब्रवीत् । सखि मानुषसंसर्गात्क्रुद्धा विद्याधरास्त्वयि ॥

पापं च ते चिकीर्षन्ति तदितो गम्यतां त्वया । अस्ति पूर्वाम्बुधेः पारे पुरं काकटकाभिधम् ॥ २

तदतिक्रम्य च नदी शीतोदा नाम पावनी । तीर्वा तामुदयाख्यश्च सिद्धक्षेत्रं महागिरिः ॥

विद्याधरैरनाक्रम्यस्तत्र त्वं गच्छ सांप्रतम् । प्रियस्य मानुषस्यास्य कृते चिन्तां च मा कृथाः॥ २

एतद्धि सर्वमेतस्य कथयित्वा गमिष्यसि । येनैष पश्चात्तत्रैव सत्त्ववानागमिष्यति ॥

इत्युक्ता सा तया सख्या भद्रा भयवशीकृता। विदूषकानुरक्तापि प्रतिपेदे’ तथेति तत् ॥

उक्त्वा च तस्य तद्युक्त्या दत्त्वा च स्वाङ्गुलीयकम् । विदूषकस्य राज्यन्तसमये सा तिरोदधे ॥ २

विदूषकस्य पूर्वस्मिञ्शून्ये देवगृहे स्थितम् । क्षणादपश्यदात्मानं न भद्रां न च मन्दिरम् ॥ २

स्मरन्विद्याप्रपञ्चं तं पश्यंश्चैवाङ्गुलीयकम् । विषविस्मयावेशवशः सोऽभूद्विदूषकः ॥

अचिन्तयच्च तस्याः स वचः स्वप्नमिव स्मरन् । गता तावन्निवेचैव सा ममोदयपर्वतम् ॥

तन्मयाप्याशु तत्रैव गन्तव्यं तदवाप्तये । न चैवं लोकदृष्टं मां लब्ध्वा राजा परित्यजेत् ॥

तस्माद्युक्त करोमीह कार्यं सिध्यति मे यथा । इति संचिन्त्य मतिमान्रूपमन्यत्स शिश्रये ॥

जीर्णवासा रजोलिप्तो भूत्वा देवीगृहात्ततः । निरगादथ हा भद्रे हा भद्रं इति स ध्रुवन् ॥

तत्क्षणं च विलोक्यैनं जनास्तद्देशवार्तिनः। सोऽयं विदूषकः प्राप्त इति कोलाहलं व्यधुः ॥

बुट्टा च राज्ञा निर्गत्य स्वयं दृष्ट्वा तथाविधः। उन्मत्तचेष्टोऽवष्टभ्य स नीतोऽभूत्स्वमन्दिरम् ॥ २

तत्र स्नेहाकुलैर्यद्यदुक्तोऽभूद्धृत्यबान्धवैः । तत्र तत्र स हा भद्रे इति प्रत्युत्तरं ददौ ॥

वैद्योपदिष्टैरभ्यनैरभ्यक्तोऽपि स तत्क्षणम् । अङ्गभुजूलयामास भूरिणा भस्मरेणुना ॥

स्नेहेन राजपुत्र्या च स्वहस्ताभ्यामुपाहृतः । आहारस्तेन सहसा पादेनाहत्य चिक्षिपे ॥

एवं स तस्थौ कतिचिद्दिवसांतत्र निःस्पृहः । पाटयन्निजवस्त्राणि कृतोन्मादो विदूषकः ॥

अशक्यप्रतिकारोऽयं तत्किमर्थं कदर्यते । त्यजेत्कदाचन प्राणान्ब्रह्महत्या भवेत्ततः ॥

स्वच्छन्दचारिणस्त्वस्य कालेन कुशलं भवेत् । इत्यालोच्य स चादित्यसेन राजा मुमोच तम् ॥ २

ततः स्वच्छन्दचारी सन्नन्येद्युः साङ्गुलीयकः । वीरो भद्रां प्रति स्वैरं स प्रतस्थे विदूषकः ॥

गच्छन्नहरहः प्राच्यां दिशि प्राप स च क्रमात् । मध्ये मार्गबशायातं नगरं पौण्ड्रवर्धनम् ॥

मातरत्र वसाम्येकां रात्रिमित्यभिधाय सः । ब्राह्मण्यास्तत्र कस्याश्चिद्युद्धायाः प्राविशत्रुहम् ॥

प्रतिपन्नाश्रया सा च कृतातिथ्या क्षणान्तरे । ब्राह्मणी समुपेत्यैवं सान्तQ:खा जगाद तम् ॥

तुभ्यमेव मया दत्तं पुत्र सर्वमिदं गृहम् । तद्वद्दण यतो नास्ति जीवितं मम सांप्रतम् ॥

कस्मादेवं भवीषीति तेनोक्ता विस्मितेन सा । श्रुयतां कथयाम्येतदित्युक्त्वा पुनरब्रवीत् ॥

अस्तीह देवसेनाख्यो नगरे पुत्र भूपतिः । तस्य चैका समुत्पन्ना कन्या भूतलभूषणम् ॥

मया दुःखेन लब्धेयमिति तां दुःखलब्धिकाम् । नाम्ना चकर्ष नृपस्तनयामतिवत्सलः ॥

कालेन यौवनारूढामानीताय स्ववेश्मनि । राज्ञे कच्छपनाथाय तां प्रादाचैष भूपतिः ॥

स कच्छपेश्वरस्तस्या वध्वा वासगृहं निशि । प्रविष्ट एव प्रथमं तत्कालं पञ्चतां ययौ ॥