पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
[ आदितस्तरङ्गः १६ ।।
कथासरित्सागरः ।

ज्येष्टान्तिकगता माता मन्तव्येयं कनीयसा । ज्येष्ठेन च स्तुपा ज्ञेया कनिष्टान्तिकवर्तिनी ॥ १४३

इत्येतन्मद्वचो राजंस्तव ते प्रपितामहाः। तथेति प्रत्यपद्यन्त कल्याणकृतबुद्धयः ॥ १४४

ते च मे सुहृदोऽभूवंस्तत्प्रीत्या चाहमागतः । त्वां द्रष्टुमिह वत्सेश तदिदं शृणु वच्मि ते ॥ १४५

यथैतन्मे कृतं वाक्यं कुर्यास्त्वं मत्रिणां तथा । अचिरेण च कालेन महतीमृद्धिमाप्स्यसि ॥ १४६

कंचित्कालं च दुःखं ते भविष्यति न च त्वया । तत्रातिमोहः कर्तव्यः सुखन्तं भविता हि तत् ॥ १४७

सम्यगेवमभिधाय तत्क्षणं वत्सराजमुद्यस्य भाविनः।
भङ्गिसूचनविधौ विशारदो नारदो मुनिरदर्शनं ययौ ॥ १४८

सर्वे च तस्य वचसा मुनिपुंगवस्य यौगन्धरायणमुखाः सचिवाछूततस्ते ।
संभाव्य सिख्युद्यमात्मचिकीर्षितस्य संपादनाय सुतरां जगृहुः प्रयत्नम् ॥ १४९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके प्रथमस्तरः।

*****


द्वितीयस्तरङ्गः



ततः पूर्वोक्तया युक्त्या वत्सराजं सबलभम् । यौगन्धरायणाद्यास्ते निन्युर्जीवाणकं प्रति ॥ १

स राजा प्राप तं देशं सैन्यघोषेण मूर्छता । अभिवाञ्छितसंसिद्धिं वदन्तमिव मत्रिणाम् ॥ २

तत्र प्राप्तं विदित्वा च वत्सेशं सपरिच्छदम् । अवस्कन्भयाशी चकम्पे मगधेश्वरः ॥ ३

यौगन्धरायणोपान्तं सहृद्धिर्विससर्ज च । स दूतं सोऽपि सन्मत्री कार्यज्ञोऽभिननन्द तम् ॥ ४

वसेश्वरोऽपि निवसंस्तस्मिन्देशे द्वीयसीम् । आखेटकार्थमटवीमटति स्म दिने दिने ॥ ५

एकस्मिन्दिवसे तस्मिन्त्राजन्याखेटकं गते । कर्तव्यसंविदं कृत्वा गोपालकसमन्वितः ॥ ६

यौगन्धरायणो धीमान्सरुमण्घद्वसन्तकः । देव्या वासवदत्ताया विजने निकटं ययौ ॥ ७

तत्र तां राजकार्येऽत्र साहाय्ये तत्तदुक्तिभिः । प्रहृमभ्यर्थयामास भ्रात्रा पूर्व प्रबोधिताम् ॥ ८

सानुमेने च विरहल्यैशदायि तदात्मनः । किं नाम न सहन्ते हि भर्तृभक्ताः कुलाङ्गनाः ॥ ९

ततस्तां ब्राह्मणीरूपां देवीं यौगन्धरायणः । स चकार कृती दत्त्वा योगं रूपविवर्तनम् ॥ १०

वसन्तकं च कृतवान्काणि बटुकरूपिणम् । आत्मना च तथैवाभूदस्थांवरब्राह्मणाकृतः ॥ ११

तथारूपां गृहीत्वाथ तां देवीं स महामतिः । वसन्तकसखः स्वैरं प्रतस्थे मगधान्प्रति ॥ १२

तया वासवदत्ता सा स्वगृहान्निर्गता सती । अगाचित्तेन भर्तारं पन्थानं वपुषा पुनः ॥ १३

तन्मन्दिरमथादीप्य दहनेन रुमण्वता । हा हा वसन्तकयुता देवी दुग्धेत्यधोष्यत ॥ १४

तथा च दहनाक्रन्दे समं तथोदतिष्ठताम् । शनैः शशाम दहनो न पुनः क्रन्दितध्वनिः ॥ १५

यौगन्धरायणः सोऽथ सह वासवदत्तया । वसन्तकेन च प्राप मगधाधिपतेः पुरम् ॥ १६

तत्रोद्यानगतां दृष्ट्वा समं ताभ्यामुपाययौ । पद्मावतीं राजसुतां वार्यमाणोऽपि रक्षिभिः ॥ १७

पद्मावत्याश्च दृ प्रैव ब्राह्मणीरूपधारिणीम् । देवीं वासवदत्तां तां दृशोः प्रीतिरजायत ॥ १८

सा रक्षिणो निषिध्यैव ततो यौगन्धरायणम्। आनाययद्राजकन्या ब्राह्मणाकृतिमन्तिकम् ॥ १९

पप्रच्छ च महत्रह्मन्का ते बाळ भवत्यसौ । किमर्थमागतोऽसीति सोऽपि तां प्रत्यभाषत ॥ २०

इयमावन्तिका नाम राजपुत्रि सुता मम । अस्याश्च भर्ती व्यसनी त्यक्त्वेमां कुत्रचिद्तः ॥ २१

तदेतां स्थापयाम्यद्य तव हस्ते यशस्विनि । यावत्तमानयाम्यस्या गत्वान्विष्याचिरात्पतिम् ॥ २२

भ्राता काणबदुश्चायमिहैवास्याः समीपगः। तिष्ठत्वेकाकिनीभावदुःखं येन न यात्यसौ ॥ २३

इत्युक्त्वा राजतनयामङ्गीकृतबचास्तया । तामाभक्ष्य स सन्मत्रं हुतं लावाणकं ययैौ ॥ २४

ततो वासवदत्तां तां स्थितामावन्तिकाख्यया । वसन्तकं चानुगतं तं काणबटुरूपिणम् ॥ २५

सहादाय कृतोदारसरकारा स्नेहशालिनी । पद्मावती स्वभवनं विवेश बहुकौतुकम् ॥ २६

तत्र वासवदत्ता च प्रतिष्ठा चित्रभित्तिषु । पश्यन्ती रामचरिते सीतां सेहे निजव्यथाम् ॥ २७