पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


*****


लावाणको नाम तृतीयो लम्बकः।


*****



इदं गुरुगिरीन्द्रजामणयमन्दरान्दोलना
पुरा किल कथामृतं हरमुखाधुधेरुतम् ।
प्रसह्य रसयन्ति ये विगतविप्रलब्धसैंयो
धुरं दधाति वैखुधीं भुवि भवप्रसादेन ते ॥

प्रथमस्तरङ्गः ।



निर्वन्नविश्वनिर्माणसिद्धये यदनुग्रहम्। मन्ये स वने धातापि तस्मै विन्नजिते नमः ॥ १

आश्लिष्यमाणः प्रियया शंकरोऽपि यदज्ञया। उत्कम्पते स भुवनं जयत्यसमसायकः ॥ २

एवं स राजा वत्सेशः क्रमेण सुतरामभूत् । प्राप्तवासवदत्तस्तत्सुखासक्तैकमानसः ॥ ३

यौगन्धरायणश्चास्य महामी दिवानिशम् । सेनापती रुमण्वांश्च राज्यभारमुदूहतुः ॥ ४

स कदाचिच्च चिन्तावानानीय रजनौ गृहम् । निजगाद रुमण्वन्तं मत्री यौगन्धरायणः ॥ ५

पाण्डवान्वयजतोऽयं वत्सेशोऽस्य च मेदिनी। कुलक्रमागता कृत्स्ना पुरं च गजसाह्वयम् ॥ ६

तत्सर्वमजिगीषेण त्यक्तमेतेन भूभृता । इहैव चास्य संजातं राज्यमेकत्र मण्डले ॥ ७

श्रीमद्यमृगयासक्तो निश्चिन्तो वृष तिष्ठति । अस्मासु राज्यचिन्ता च सर्वानेन समपिता ॥ ८

तदस्माभिः स्वबुद्धयैव तथा कार्यं यथैव तत् । समग्नपृथिवीराज्यं प्राप्नोत्येव क्रमागतम् ॥ ९

एवं कृते हि भक्तिश्च मन्त्रिता च कृता भवेत् । सर्वे च साध्यते बुख्या तथा चैतां कथां यण् ॥ १०

आसीत्कश्चिन्महासेन इति नाम्ना पुरा नृपः । स चान्येनाभियुक्तोऽभूछुपेणातिबलीयसा ॥ ११

ततः समेत्य सचिवैः स्वकार्यभृशरक्षिभिः । दपितः स महसेनो दण्डं तस्मै किल द्विषे ॥ १२

दत्तदण्डश्च राजासौ मानी भृशमतप्यत । किं मया विहितः शत्रोः प्रणाम इति चिन्तयन् ॥ १३

तेनैव चास्य गुल्मोऽन्तः शोकेन शुदपद्यत । गुल्माक्रान्तश्च शोकेन स मुमूर्षीरभूनृपः ॥ १४

ततस्तदौषधासाध्यं मत्वैको मतिमान्भिषक् । मृता ते देव देवीति मिथ्या वक्ति स्म ते नृपम् ॥ १५

तच्छुत्वा सहसा भूमौ पततस्तस्य भूपतेः । शोकावेगेन बलिना स गुल्मः स्वयमस्फुटत् ॥ १६

रोगोत्तीर्णश्चिरं देव्या तथैव च सहेप्सितान् । भोगान्स बुभुजे राजा जिगाय च रिपून्पुनः ॥ १७

तद्यथा स भिषबुद्ध्या चक्रे राजहितं तथा । वयं राजहितं कुर्मः साधयामोऽस्य मेदिनीम् ॥ १८

परिपन्थी च तत्रैकः प्रद्योतो मगधेश्वरः। पार्जिणग्राहः स हि सदा पश्चात्कोपं करोति नः ॥ १९

तत्तस्य कन्यकारत्नमस्ति पद्मावतीति यत् । तस्य वत्सराजस्य कृते याचामहे वयम् ॥ २०

छन्नां वासवदत्तां च स्थापयित्वा स्वबुद्धितः। दत्वानि वासके धूमो देवी दग्धेति सर्वतः ॥ २१

नान्यथा तां सुतां राज्ञे ददाति मगधाधिपः। एतदर्थं स हि मया प्रार्थितः पूर्वमुक्तवान् ॥ २२

नाहं वत्सेश्वरायैतां दास्याम्यात्माधिकां सुताम् । तस्य वासवदत्तायां स्नेहो हि सुमहानिति ॥ २३

सत्यां देव्यां च वत्सेशो नैवान्यां परिणेष्यति । देवी दग्धेति जातायां ख्यातौ सर्वे तु सेत्स्यति ॥ २४

पद्मावत्यां च लब्धायां संबन्धी मगधाधिप । पश्चात्कोपं न कुरुते सहायत्वं च गच्छति ॥ २५