पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५१ ५८४ कथासरित्सागरः [ आदितस्तरङ्गः १२३ एतच्छुत्वा स वेतालोऽवादीनैतदुरासदम् । कलिङ्गसेना नामास्ति कलिङ्गाधिपतेः सुता १३६ तां दृष्ट्वा रूपकारेण तद्वपघटनेप्सुना । वर्धमानपुरीयेण कृतेयं सालभञ्जिका १४८ तद्वोज्जयिनीं तस्मात्कालिङ्गानृपतेः प्रभो । तामर्थयस्व तत्कन्यां विक्रमेण हराथवा १४१ इति वेतालवचनं न्यधाद्राजा तथा दि । ततो नीत्वात्र तां रात्रिं प्रातः संप्रस्थिता वयम्। १४३ यान्तश्चाशोकवृक्षस्य तलेऽपश्याम पूरुषे । भव्यौ द्वौ तौ च राजानमुत्थायानमतां ततः १४ कौ युवां किमरण्याविति राज्ञोक्तयोस्तयोः। एको वक्ति स्म दैवैतच्छूयतां कथयाम्यहम्। १४५ धनदत्ताभिधानोऽहमुज्जयिन्यां वणिक्सुतः । सोऽहंहर्यतले जातु संसुप्तो भार्यया सह १४५ प्रातः प्रबुध्य पश्यामि यावत्सा तत्र नास्ति मे । भार्या हर्यं न चान्येषु प्रासादोपवनादिषु १४६ न तस्याश्चित्तमन्यादृक्क्कृतोऽत्र प्रत्ययस्तथा । यदि सध्यस्मि तदियं न स्लायेब्रुवमित्यसौ १४७ माला मी तया दत्ता सा चाम्लानैव वर्तते । तन्न जाने क याता सा नीता भूतादिना नु किम् १४८ इति संचिन्तयंश्चिन्वन्नाक्रन्दन्विलपन्रुदन् । अतिष्टं तद्वियोगाग्निज्वलितोऽहमभोजनः १४९ बान्धवाश्वसितः किंचित्कृताहारोऽथ दुःखितः ब्राह्मणान्भोजयन्नासं देवागारे कृतस्थितिः १५० तत्र जातु परिश्रान्तो विप्रो मामयमभ्यगात् मय विश्रमितश्चायं नानाहारादिना तदा कुतस्त्वमिति पृष्टश्च भुक्तोत्तरमसौ सया । वाराणसीसमीपस्थाद्रामादस्मीत्यभाषत १५२ सह्त्याख्यातमदुःखस्तत एषोऽब्रवीत्पुनः । आरमावसादितो मित्र किमनुयोगिना त्वया १५३ व्यवसायी हि दुष्प्रापमपि प्राप्नोति तत्सखे । उत्तिष्ठ तव भार्या तामन्विष्यावः सखास्मि ते १५४ कथं सान्विष्यते यस्या द्वित्रं नैव बुध्यते । इत्युक्तवन्तमथ मां प्रीत्या भूयोऽब्रवक्ष्यम् १५५ मैवं किं केसटो न प्रागसंभाव्यसमागमाम् । प्राप रूपवतीं भार्या तथा चैतत्कथां श्रुणु १५६ पुरे पाटलिपुत्रेऽभूद्धनाढ्यश्राह्मणात्मजः । केसटख्यो द्वियुवा रूपे काम इवापरः १५७ स भार्या सदृशीं प्रेप्सुः पित्रोरविदितो गृहात् । निर्गत्य देशान्बभ्राम तांस्तांस्तीर्थोपदेशतः १५८ क्रमाच्च नर्मदातीरं प्राप्तो जातु ददर्श सः । महान्तमागतं तेन जन्ययात्राजनं पथा १५५९ दृष्ट्वा च दूरात्तन्मध्यादेव्यैकस्तं द्विजाग्रणीः। संभाष्य केसटं वृद्धः प्राह सप्रणयं रहः १६ त्वत्तोऽहमर्थये किंचिल्लीलासाध्यं च तत्तव । मम तूपकृतिः पूर्णं करोषि यदि वच्मि तत् । १६१ तच्छूखा केसटोऽवादीदाची शक्यं ब्रवीषि चेत् । तन्निश्चितं मया कार्यं भवतूपकृतिस्तंत्र १६२ ततो वृद्धद्विजोऽवादीच्छूणु पुत्रास्ति मे सुतः । स चाप्रणीर्विरूपाणां सुरूपाणां भवानिव १६३ दन्तुरश्चिपिटघ्राणः कृष्णः काचरलोचनः । पृथूदरो वक्रपादः शूर्पकर्णपुटश्च सः १६४ तादृशस्य कृते स्नेहत्कृत्वा रूपाभिवर्णनम् । ब्राह्मणाद्रत्नदत्ताख्याकन्यका याचिता मया १६५ सा च रूपवती नाम पित्रा दातुं प्रतिश्रुता । तेनान्वर्थाभिधा तस्मै सोऽद्य पाणिग्रहस्तयोः १६६ तर्थमागता एते वयं दृष्टे च मनुते । न संबन्धी सुतां दद्यादरम्भोऽयं वृथा भवेत् १६७ उपायं ध्यायता चात्र मया लब्धो भवानिह । तद्वाचा प्रतिपन्नं द्रागिदं से वाGिछतं कुरु १६८ अस्माभिः सममागस्य कन्यां तां परिणीय च । मत्पुत्राय प्रयच्छाद्य वध्यास्त्वं ह्यनुरूपकः १६९ तच्छुत्वा तं तथेत्युक्तवन्तमादाय केसटम् । नौभिः स नर्मदां तीर्वा पारं वृद्धद्विजो ययौ १७० प्राप्य चैकं पुरं सोऽथ व्यश्रमसानुगो बहिः । आकाशपथिकोऽस्ताद्रौ तावकोऽप्युपाविशत् १७१ प्रसर्पति ततो यान्ते जलोपान्ते स केसट: उपस्प्रष्टुं गतोऽद्राक्षीद्राक्षसं घोरमुस्थितम् १७२ भक्ष्याम्यहमेष त्वां क से केसट यास्यसि । इत्युक्तवन्तं च स तं राक्षसं केसटोऽभ्यधात् १७३ मा स्म मां भक्षयेस्तावत्त्वामुपैष्याम्यंहं पुनः ब्राह्मणस्य प्रतिज्ञातं कार्यं निर्वाह निश्चितम् । १७४ तच्छुखा कारयिता च शपथं सोऽथ राक्षसः । मुमोच केसर्ट सोऽपि तज्जन्यचलकं ययौ। १७५ ततः स वृद्धविप्रस्तं घरमण्डनमण्डितम् । आदाय केसटं जन्यैः समं तप्राविशधुरम् १७६ तत्र सजितवेदीकं रत्नदत्तगृहं च सः प्रावेशयत्केसटं तं विविधातोद्यनादितम् १७७