पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ [ आदितस्तरङ्गः आश्वासय च तां गत्वा कल्याणि त्वरितं सखीम् । इमं च परितुष्टेन वितीर्णा मे स्वयंभुवा । देहि चूडामणिं तस्यै सर्वदुःखनिबर्हणम् । शक्रास्प्राप्तो मया चायं हारस्ते पारितोषिकः । इत्युक्त्वा शिरसबूडामणिं तस्यै समर्पयत् । हारं च कण्ठात्तत्कण्ठे तं स राजसुतो व्यधात् ॥ अथ प्रणम्य तं प्रीता सा मनोहारिका ततः । प्रतस्थे विहगारूढा सखीं पद्मावतीं प्रति । स मुक्ताफलकेतुश्च प्रहर्षापहृतचुमः । सह संयतकेन स्वं त्वरितं प्राविशत्पुरम् ॥ सापि पद्मावतीपार्श्व प्राप्य तस्यै यथेप्सितम् । तं मनोहारिकाचख्यौ तत्प्रियस्मरसंज्वरम् ॥ प्रणयन्निग्धमधुरं तद्वचश्च यथाश्रुतम् । तं च संगमसंकेतं तदुक्तं गिरिजाश्रमे । वैौ तमहितं तं च तस्यै चूडामणिं ततः । पारितोषिकहारं च तद्दत्तं तमदर्शयत् । ततः पद्मावती सा तामाश्लिष्य कृतिनीं सखीम् । अपूजयद्विसस्मार स्मरानलरुजं च ताम् । बड़ा शिखायामानन्दमिव चूडामणिं च तम् । चक्रे परिकरं गौरीकाननागमनाय सा ॥ अत्रान्तरे मुनिंदैवात्तद्भौरीवनमागमत् । दृढव्रतेन शिष्येण सह नाम्ना तपोधनः । स चात्र तमुवाचैवं मुनिः शिष्यं दृढव्रतम् । दिव्योद्यानेऽहमेतस्मिन्समाधिं विदधे क्षणम् ॥ द्वारि स्थित्वा प्रवेशोऽत्र न देयः कस्यचित्वया। समापितसमाधिश्च पूजयिष्यामि पार्वतीम् । इत्युक्त्वा मुनिरुद्यानद्वारे शिष्यं निवेश्य तम् । अधस्तात्पारिजातस्य स समाधिमसेवत । समाधेरुस्थितश्चान्तर्ववेशार्चितुमम्बिकाम् । न च तत्तस्य शिष्यस्य जगाद द्वारवर्तिनः । तावच्चत्राययौ मुक्ताफलकेतुः प्रसाधितः । आरुह्य दिव्यकरभं सह संयतकेन सः । प्रविशंश्च तदुद्यानं सुनिशिष्येण तेन सः। मा मा गुरुः समाधौ मे स्थितोऽत्रेति न्यषिध्यत ॥ विस्तीर्णाभ्यन्तरे जातु प्रिया सा स्यादिहागता । मुनिश्चात्रैकदेशस्थ इत्यालोच्य स सोत्सुकः । राजपुत्रो व्यतीत्यास्य मुनिपुत्रस्य दृक्पथम् । विवेश व्योममार्गेण तदुद्यानं सुहृद्युतः । यावच वीक्षते तत्स तावत्तत्र विवेश सः। गुरोः समाधिनिष्पतिं मुनिशिष्यो निरीक्षितुम् । स ददर्श गुरं नात्र ददर्श सवयस्यकम् । श्रीमुक्ताफलकेतुं तु प्रविष्टमपथेन तम् । ततः स राजपुत्रं तं मुनिशिष्योऽशपत्क्षुधा। सवयस्योऽपि मानुष्यमस्मादविनयाद्रज । इतः समाधिं भङ्क्त्वा यद्रुमेंऽपासितस्त्वया । एवं स दत्तशापस्तं स्वमेवान्वसरदुरुम् । स मुक्ताफलकेतुश्च सिद्धप्राये मनोरथे । शापाशनिनिपातेन विषादमगमत्परम् । तावत्पद्मावती मात्र प्रियसंगमसोत्सुका। आगाद्विहंगमारूढा समनोहारिकादिका । स्खयंवरागतां दृष्वा तां शापान्तरितां च सः । सुखदुःखमयीं कथं दशां राजसुतो घौ ॥ पद्मावत्याश्च तत्काळमदाक्षिण्यं प्रदर्शयत् । पस्पन्दे दक्षिणं चक्षुरकम्पत च मानसम् । ततोऽत्र सा राजसुता कान्तं विप्रं विलोक्य तम् । किं पूर्वानागतत्वान्मे खिन्नः स्यादित्यचिन्तः प्रश्रयोपागतां तां च राजपुत्रो जगाद सः। प्रिये मनोरथो भन्नः सिद्धोऽपि विधिनावयोः । तच्छुत्ला हा कथं भग्न इति तस्यै ससंभ्रमम् । पृच्छन्वै स स्वशापं तं राजसूनुरवर्णयत् । ततो विविना जग्मुस्ते शापदातुर्गुरुं मुनिम् । देवीगृह स्थितं सर्वं शापान्तायानुनाथितुम् । उपागतांस्तान्प्रणतान्दृष्ट्वा ज्ञानी महामुनिः । स मुक्ताफलकेतुं तं प्रीतिपूर्वमभाषत । मूर्वेणानेन शप्तस्त्वमप्रेक्षापूर्वकारिणा । न त्वया मे छतं किंचिदुत्थितोऽहं स्वतस्ततः । हेतुमात्रमयं चात्र भवितव्यमिदं तव । मानुष्येऽवश्यकायै ते देवकार्यं हि विद्यते ॥ एतां पद्मावतीमेव दैवादृष्टा स्मरातुरः। त्यक्त्वा मर्यशरीरं त्वं शीघ्र शापाद्विमोक्ष्यसे । अनेनैव च देहेन पुनः प्राणेश्वरीमिमाम् । त्रातासि विश्वत्राता त्वं चिरं शापं हि नार्हसि ॥ प्रक्षात्रेण हता दैत्या बाळबृद्धादयोऽपि यत् । वप्रयुक्तेन सोऽधर्मलेशो हेतुस्तवात्र च ॥ तच्छुत्वा तमृषिं पद्मावती सास्रा व्यजिज्ञपत् । भगवन्यार्यपुत्रस्य गतिः सैवास्तु मेऽधुना । नैतद्विरहिता स्थातुमपि शक्ष्याम्यहं क्षणम् । इत्यर्थितवतीं पवतीं स मुनिरभ्यधात् ।