पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ कथासरित्सागरः । [ आदितस्तरङ्ग जत्रुस्ते च तमसुरं समरे शर्वप्रसाळव्धेन । विद्याधरेन्द्रपतिना मुक्ताफलकेतुना सहायेन । स च भुक्तफलकेतुः शापकृतं मर्यभावमुत्तीर्य । तदनुग्रहादवापरपद्मावत्या समागमं भूयः । तादृशि तत्र क्षेत्र गत्वा नत्वा हरं प्रयास्यामः । स्वां गतिमीदृग्विहितो देव्यास्माकं समो हि शापान्तः । इत्युक्तो दिव्याभ्यां हंसाभ्यां ब्रह्मदत्तभूमिपतिः । सद्योऽभून्मुक्ताफलकेतुकथाश्रवणकौतुकाक्षिप्तः । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलबके प्रथमस्तरः। ततः स ब्रह्मदत्तस्तौ दिव्यहंसौ नृपोऽब्रवीत् । कथं विद्युद्वजं मुक्ताफलकेतुर्जघान तम् ॥ शपमर्यत्वमुत्तीर्य श्राप पद्मावतीं कथम् । एतत्कथयतां तावत्कर्तास्मि प्रकृतं ततः । तच्छुत्वा तत्कथामेवं ताववर्णयतां खगौ। आसीद्विद्युत्प्रभो नाम दैत्येन्द्रो देवदुर्जयः ॥ स गत्वा जाह्नवीतीरे सभार्यः पुत्रकाम्यया । ब्रह्मणमाराधयितुं चक्रे वर्षशतं तपः ।। तपस्तुष्टस्य स ततः सुरारित्रंह्मणो वरान् । प्राप विद्युद्वजं नाम त्रिदशावध्यमामजम् । स बालेऽपि महावीय दैत्यराजसुतो बलैः । रक्ष्यमाणं चतुर्दिकं दृष्वा स्वपुरमेकदा ।। वयस्यमेकमप्राक्षीद्भयमत्र कुतः सखे । येनेदं रक्ष्यते नित्यं नगरं सैनिकैरिति । ततो वयस्यः सोऽवादीस्ति नत्रिदशेश्वरः। प्रतिपक्षस्तथाऽयं पुररक्षणसंविधिः । दन्तिनां दशलक्षाणि रथानां च चतुर्दश । त्रिंशल्लक्षाणि चाश्वानां पत्तीनां दशकोटयः ॥ यामे यामेऽभिरक्षन्ति पुरं वारक्रमादिदम् । स च प्रहरवारोऽब्दैस्तेषामायाति सप्तभिः । तच्छुत्वा सोऽब्रवीद्विद्युद्धजो धिराज्यमीदृशम् । रक्ष्यते यस्किलान्येषां बाहुभिर्न स्ववाहुना ।। तस्कृत्वाहं तपस्तीनं करिष्यामि तथा यथा । भुजनिर्जितशत्रोमें न स्यादेषा विडम्बना । इत्युक्त्वैव वयस्यं तं वारयन्तं निषिध्य सः । विद्युद्वजो ययौ पित्रोरनुक्त्वा तपसे वनम् । बुढाथ पितरौ स्नेहादुन्वागत्य तमूचतुः । क बालस्वं क च तपः कष्टं मा पुत्र साहसम् । जितशत्रु च राज्यं नस्त्रैलोक्ये नु ततोऽधिकम् । किं वाञ्छसि वृथात्मानं शोषयनिक दुनोषि नौ ॥ एवं वदन्तौ पितरौ विद्युद्वाज उवाच सः । बाल्य एवार्जयिष्यामि दिव्यास्त्राणि तपोबलात्। निःशत्रु च जगद्राज्यमेतेनैव न वेद्मि किम् । रक्ष्यते नित्यसंनद्धेः सैन्यैः स्खपुरमेव यत् । इत्यादि निश्चयेनोक्त्वा पितरौ च विसृज्य सः । विद्युद्धकोऽसुरश्चक्रे विरिञ्चराधनं तपः । फलाहारोऽम्बुभक्षश्च वायुभृग्वजिताशनः। त्रीणि त्रीणि क्रमात्तस्थौ दैत्यो वर्षशतानि सः । ततो ब्रह्मा जगत्क्षोभक्षममालोक्य तत्तपः । एत्यास्त्राणि ददौ तस्मै ब्राह्मादीनि तदर्थिने । ब्रह्मत्वमेतदन्येन नास्त्रेण प्रतिहन्यते । विना पाशुपतं रौद्रमस्त्रमस्मद्गोचरम् । तदकाले त्वया नैतत्प्रयोक्तव्यं जयैषिणा । इत्युक्त्वा प्रययौ ब्रह्म स दैत्यश्चागमतृहम् । ततस्तदुत्सवायातैः सर्वैः स स्वबलैः सह । विद्युद्धज्ञः समं पित्रा प्रायाच्छक्रजिगीषया ॥ शक्रस्तदागमं बुद्धा कृतरक्षस्त्रिविष्टपे । सख्या विद्याधरेन्द्रेण सहितश्चन्द्रकेतुना । पद्मशेखरसंज्ञेन गन्धर्वाधीश्वरेण च । सदेवलोकपालोऽग्रे युयुत्सुस्तस्य निर्ययौ । प्राप विद्युङ्कजश्चात्र बलैराच्छादिताम्बरः । ब्रह्मरुद्रादयश्चैतमाहवं द्रष्टुमाययुः । ततः प्रववृते युद्धे तयोरुभयसैन्ययोः । परस्परास्रसंपातनिरुद्धकन्धकारितम् । अमर्षवातक्षुभितो वाहिनीशतनिर्भरः । लुठद्वाजिगजग्राहो ववृधे समरार्णवः ।