पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ कथासरित्सागर । [ आदितस्तरङ्गः १ को नामाषं गजेन्द्रेण याचितेन द्विजन्मनाम् । तज्ज्ञाने निश्चितमिमे प्रयुक्ता मम केनचित् । तद्यदस्तु मया तावद्दतव्योऽयं गजोत्तमः । अप्राप्तकामो ह्यर्थं मे कथं यास्यति जीवतः । इति संचिन्त्य तेभ्यस्तं द्विजेभ्यो वारणोत्तमम् । तारावलोकः स ददौ निष्कम्पेनैव चेतसा । ततस्तैर्नायमानं तं दृष्ट्वा करिवरं द्विजैः । पौराश्चन्द्रावलोकस्य क्रुद्धा राज्ञोऽन्तिकं ययुः । ऊचुश्च ते सुतेनेदं राज्यं त्यक्तं तवाधुना । मुनिधर्मी गृहीतश्व सर्वसंन्यासकारिणा । यदेतेन श्रियो मूलं गन्धभन्नान्यवारणः । द्त्तः कुवलयापीडः पश्यार्थिभ्यो महागजः तदेतं तपसे पुत्रं वनं प्रस्थापयाथवा । गजं प्रयाहरन्यं वा राजानं कुर्महे वयम् इति चन्द्रावलोकस्तैः पौरैरुक्तस्तथैव तत् । स पुत्रं आवयामास प्रतीहारमुखेन तम् । सोऽपि तारावलोकस्तच्छुत्वा तत्तनयोऽब्रवीत् । हस्ती तावन्मया दत्तो नास्यद्देयं च मेऽर्थषु ईदृशेन तु राज्येन पौरयन्तेन किं मम । किं चान्यानुपयोगिन्या लक्ष्म्या विद्युद्विलोलया । तन्मे श्रेयो वने वासः सर्वभोज्यफलश्रियाम् । मध्ये तरूणां न पुनर्युपनमिहेदृशाम् । इत्युक्त्वा तुल्यसंकल्पधीरया भार्ययान्वितः। पित्रोः पादावनुध्याय दत्वार्थिभ्योऽर्थसंचयम् । गृहीतवल्कलः साकं स पुत्राभ्यां निजात्पुरात् । तारावलोको निरगाढ्दतः सान्वयंन्द्विजान् । तथाप्रस्थितं दृष्ट्वा पशूनां पक्षिणामपि । करुणं क्रन्दतामश्रुधाराभिभूरसिच्यत । सुन्योर्वाहनमात्रैकरथशेषः पथि व्रजन् । सोऽथ तारावलोकोऽन्यै रथाश्वन्याचितो द्विजैः । स तानथ ददौ तेभ्यश्चकर्वे च रथं स्वयम् । सभार्यः सुकुमारौ तौ नेतुं बालौ तपोबनम् ॥ ततोऽटवीमध्यगतं परिश्रान्तभुपेत्य तम् । निरवं रथमप्यत्र ययाचे ब्राह्मणोऽपरः । तस्मै तमपि निःशङ्कं दत्त्वा पञ्च सपुत्रकः । सभार्यश्च कथंचित्स धीरः प्राप तपोवनम् ॥ तत्र माझा कृतोदारपरिचर्यः स्वभार्यया । तरुमूले कृतावासस्तस्थौ मृगपरिच्छदः ॥ चाताहतिचलत्पुष्पमञ्जरीचारुचमः । पृथुच्छायातरुच्छत्रैः पत्रशय्याशिळासनैः । गीतैशृङ्गाङ्गनानां च नानाफलरसासवैः। वीरं वैराग्यराज्यस्थं वनान्तास्तं सिषेविरे ।। एक 'वान्न तत्पत्न्यां मायां तस्य कृते स्वयम् । आहर्तु फलपुष्पादि गतायामाश्रमाद्वहिः । उपेत्य ब्राह्मणो वृद्धः कश्चितमुटजस्थितम् । तारावलोकं तनयौ ययाचे रामलक्ष्मणें ॥ वरं पुत्राविमौ नीतौ पारयिष्ये शिशु अपि । न पुनर्भग्नकामोऽयं प्रेषितोऽर्थी कथंचन । विधिर्वीक्षितुकामो हि धैर्यध्वंसं शठो सस । इति संचिन्त्य स ददौ तस्मै विप्राय तौ सुतौ ॥ नीयमानौ च तौ तेन विप्रेण ययतुर्न यत् । तत्स चिप्रा लताभिस्तैौ बद्धहस्तावताडयत्॥ निनाय चैतैौ क्रन्तौ नृशंसो जननीं मुहुः । विवृत्य पितरं तं च पश्यन्तौ साश्रुलोचनौ ॥ वत्स तारावलोकोऽत्र पश्यन्नपि न चुक्षुभे । चुक्षुभे त्वस्य धैर्येण भूतग्रामश्चराचरः । अथाहृत्य शनैः पुष्पफलमूलादि सा सती । वनान्तादययैौ माद्री श्रन्ता तं पत्युराश्रमम् ।। ददर्शाधोमुखं तं च भर्तारं न तु तौ सुतौ । विप्रकीर्णास्थितक्रीडमृण्मयाश्वरथद्विपौ। अनिष्टाशङ्किहृदया हा हतास्मि क्क तौ सम । पुत्रकाविति पप्रच्छ संभ्रान्ता तं पतिं च सा । सोऽप्यत्रीच्छनैरेतामनघे तनयौ सया । याचमानाय तौ दत्तैौ दरिद्राय द्विजन्मने ॥ तच्छुत्वा त्यक्तमोह सा साध्वी तमवदत्पतिम्। तर्हि युक्तं कृतं यातु कथमर्थं पराङ्भुखः । एवं तयोक्ते दंपत्योस्तुल्यसत्त्वतया तया । तयोश्चकम्पे भुवनं चचालेन्द्रस्य चासनम् । अथेन्द्रः प्रणिधनेन माद्रीताराबलोकयोः । दानसवप्रभावेण कम्पितं जगदैक्षत । ततः स ब्राह्मणो भूत्वा गत्वा जिज्ञासुराश्रमम् । तारावलोकं माद्र तामेकपत्नीमयाचत ॥ तारावलोकोऽभ्येतस्मै दातुं हस्तोदकेन ताम् । निर्विकल्पः प्रचवृते वनान्तसहचारिणीम् । किं साधयसि राजर्षे दत्त्वा दारानपीदृशानु । इत्युक्तो द्विजरूपेण तेन शक्रेण सोऽब्रवीत् । मे साध्यं किमप्यस्ति वञ्छा त्वेतावती मम। प्राणानपि सद द्यां ब्राह्मणेभ्य इति द्विज ।