पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः १।]
हाभिषेकलम्बकः १५ ।

ततः क्रूरेण तपसा पुनराराधितं हरम् । प्राग्वददिष्टसाम्राज्यमृषभोऽसौ व्यजिज्ञपत् ॥
कैलासोवनं तावन्नास्ति नः केन तत्पथा । उभयोः पार्श्वयोर्देव चक्रवर्ती भवाम्यहम् ॥
तच्छुत्वोत्तरपार्थेऽस्य गमनाय पिनाकधृत् । चकार भित्वा कैलासं तखुट्टविवरं महत् ॥
अथ विद्धः स कैलासो विनो व्यज्ञापयच्छिवम् । मानुषागम्यमेतन्मे भगवन्पार्श्वमुत्तरम् ॥
राम्यं तेषामपीदानीमनया गुइया कृतम् । तत्तथा कुरु येनैषा सर्यादा से न भज्यते ॥
कैलासेनेति विज्ञप्तो गुहायां रक्षकान्हरः। स्थापयामास दिग्दन्तिदृग्विषाहीन्द्रगुह्यकान् ॥
दक्षिणेऽस्य महमायं द्वारि विद्याधरेश्वरम् । उत्तरे कालरात्रिं च चण्डिकामपराजिताम् ॥
एवं कृतगुहारक्षो महारत्नानि शंकरः । उत्पाद्य भगवांस्तत्र व्यवस्थामादिदेश सः ॥
सिद्धरत्नस्य गम्येयं द्विपार्टी चक्रबर्तनः । धूचराणां सदाराणां सदूतानां भविष्यति ॥
अनुज्ञाताश्च ये तेन राजानः स्युरिहोत्तरे । तेषां चैषा गुहा गया न त्वन्यस्यात्र कस्यचित् ॥
इत्यादिष्टयति त्र्यक्षे कुर्घवृषभकस्ततः। साम्राज्यं युयुधे दर्पोद्देवैर्जम्ने च वत्रिणा ॥
इत्येषोऽस्यास्त्रिशीर्षाख्यगुह्या आगमः प्रभो । अगम्या चैव सैषान्यैर्विन युष्मादृशैर्गुहा ॥
तस्य चैतदुहद्वाररक्षिणः कालतः कुले । महामायस्य जातोऽयं देवमायोऽहमीश्वर ॥
विद्याधरेषु जातोऽयं दुर्जयो रिपुभिर्युधे । यश्च जेष्यत्यमुं सोऽत्र चक्रवर्ती भविष्यति ॥
तेनास्य स्वामिना भाव्यं सोऽनुबर्योऽमुना प्रभुः। इति जन्मनि मे दिव्या व्याजहार सरस्वती ॥
सोऽहं जितस्त्वया त्वं च सिद्धरत्नः प्रभाववान् । कैलासोभयपाश्र्वेकचक्रवर्तीह नः प्रभुः ॥
तन्निशीर्षगुहामेतां तीर्वा शेषान्रिपूजय । इत्युक्ते देवमायेन चक्रवर्ती जगाद सः ॥
गच्छामोऽद्य गुहाद्वारे वसामरस्तत्र सांप्रतम् । कृतसंविधयः प्रातः प्रवेक्ष्यामश्च तां गुहम् ॥
इत्युक्तवान्स गत्वथ सर्वैस्तै राजभिः सह । नरवाहनदत्तोऽत्र गुदद्वारे समावसत् ॥
ददर्श तां च गम्भीरनिरालोकोदरं गुह्यम् । जन्मभूमिमनमैन्द्धं कल्पान्ततमसामिव ॥
द्वितीयेऽह्नि च संपूज्य विवेशैतां विमानगः । ध्यातोपनतसद्रत्नसमयः सपरिच्छदः ॥
तमांसि चन्द्रिकारत्नैश्चन्दनेनाहिदृग्विषाम् । दिग्ग़ाजान्हस्तिरन्नेन खञ्जरत्नेन गुणकान् ॥
विन्ननन्यांश्चान्यरत्नैर्नबायें सह सेनया । उत्तीर्य तां गुहां चोदग्द्वारेण स विनिर्ययौ ॥
ददर्श च गुडूगर्भनिर्गतः पार्श्वमुत्तरम् । कैलासस्यापुनर्जन्मजीवलोकान्तरोपमम् ॥
साधु रत्नप्रभावाप्तमाहात्म्येन गुह त्वया । चक्रवार्तिन्नियं तीर्थान्युदभूद्वक्तदा दिवः ॥
अथोचतुर्धनवती देवसायश्च तं प्रभुम् । देव संनिहिता द्वारे कालरात्रीह सर्वदा ॥
एषा चोत्पादिता पूर्वं विष्णुनामृतमन्थने । दारणी दानवेन्द्राणाममृतं हर्तुमिच्छताम् ॥
सैषादिष्टा गुह्यमेतासिह शर्वेण रक्षितुम् । यथा नान्यस्तदेनां यथोक्तैस्स्वद्विधैर्विना ॥
त्वं चक्रवर्ती तीर्णाश्च सिद्धरत्नो गुहामिमाम् । तदेषा पूजनीया ते पूज्या विजयसिद्धये ॥
एवं धनवतीदेवमायोक्तस्यैव तस्य सः । नरवाहनदत्तस्य तत्राक्षीयत वासरः ॥
संध्यारुण बभूवुश्च कैलासोत्तरसानवः । सूचयन्त इवासन्नवद्भामरुधिरोक्षणम् ॥
आवृणोत्कटकं तस्य राज्ञो लब्धबलं तमः । गुहागृहपराभूतिवैरमार्द्रमिव स्मरन् ॥
अनद्मदुर्मनःकालरात्रिकोधाङ्गरा इव। बभ्रमुभूतवेतालडाकिनीगणफेरबः ॥
क्षणाच्च जज्ञे निःसंशं सैन्यं सुप्तमिवाखिलम् । नरवाहनदत्तस्य स एकोऽभून्न मोहितः ॥
ततोऽनर्चनसंक्रुद्धकालरात्रिविधृम्भितम् । मन्वानश्चक्रवर्ती स वाक्पुष्पैस्तामथार्चयत् ॥
आशिरश्चक्रसंचारचतुरा प्रणवाकृतिः । त्वं प्राणशक्तिर्जन्तूनां जीवनी त्वां नमाम्यहम् ॥
स्रचन्महिषकण्ठास्रधाराभिस्त्रिशिखाश्रिभिः। आश्वासितत्रिभुवने दुर्गारूपे नमोऽस्तु ते ॥
रुरुरक्तश्रुतभ्रान्तकरस्थितकपाळया । नृत्यन्या त्रिजगद्रक्षापत्रयेब जितं त्वया ॥
ऊध्र्वाक्षिदीप्तिदीपीश्यकपाला कालरात्र्यपि । कपालहस्ता सार्केन्दुरिव भासि भवप्रिये ॥