पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६८
[ आदितस्तरङ्गः
कथासरित्सागरः।

दिगन्तव्यापिविस्तारं प्रतिबिम्बमिवात्मनः । द्रष्टुं त्रैलोक्यलक्ष्म्येव विहितं मणिदर्पणम् ॥
धार्तराष्ट्रकृतक्षोभं विचित्रार्जुनविभ्रमम् । विश्रान्तिकृत्स्वादुरसं भारतानुकृतिं दधत् ॥
उपकण्ठमिलनीलकण्ठपीतविषोत्तमम् । अच्युताश्रितलक्ष्मीकं मन्थफाळाब्धिसंनिभम् ॥
सूर्यरश्मिभिरप्राप्तगम्भीरशिशिरान्तरम् । अनन्तपद्मनिलयं पातालमिव भूमिगम् ॥
तस्य तीरे च सरसः पश्चिमे स व्यलोकयत् ।राजपुत्रः ससचिवो महान्तं दिव्यपादपम् ॥
वातान्दोलितविस्तारिशाखाभुजकदम्बकम् । मूर्धलग्नाभ्रसरितं नृत्यन्तमिव शंकरम् ॥
अत्युन्नतेन शिरसा व्योमपृष्टावगाहिना । कौतुकान्नन्दनोद्यानशोभां द्रष्टुमिवोद्यतम् ॥
शोभमानं फलैर्दिव्यरसैः शाखावलम्बिभिः । कस्पट्समं सुरानटैः पीयूषकळशैरिव ॥
मा मां यथा तथा कश्चित्प्राक्षीदिति खगारवैः। व्याहरन्तमिव प्रेङ्कपल्लवाभकरं मुहुः ॥
यावन्मृगाङ्कदत्तस्तं स निर्वर्णयति प्रभुः । तावत्तन्मत्रिणस्तस्मिन्प्रधाव्य क्षुत्तृषार्दिताः ॥
फलानि भोक्तुमारूढास्तस्य दृश्चैव तानि ते । फलत्वं षडपि प्राप्त मानुषा अप्यशङ्कितम् ॥
ततो मृगाङ्कदत्तस्तानपश्यन्विह्वलः सखीन् । एकैकं स तरौ तत्र नामग्राहमशब्दयत् ॥
यदा दुर्न वचनं न चादृश्यन्त ते कच्चित् । तदा हा हा हतोऽस्मीति नैराश्यविधुरं वदन् ॥
स राजपुत्रो न्यपतन्मूर्छितोऽत्र महीतले । द्वमानारूढपार्श्वस्थकेवलश्रुतधिद्विजः ॥
श्रुतधिः स च विप्रस्तमुवाचाश्वास्य तत्क्षणम् । कृतप्रज्ञोऽपि किं देव त्यक्तधैर्योऽवसीदसि ॥
अश्रुते हि स कल्याणं व्यसने यो न मुह्यति । नागशापवियुक्तानिक नैतान्संप्राप्तवानसि ॥
तथैव पुनरभ्येतान्मन्त्रिणोऽन्यांश्च लप्स्यसे । शशाङ्कवत्या संयोगोऽप्यचिरात्ते भविष्यति ॥
एवं श्रुतधिनोक्तः सन्राजपुत्रो जगाद सः । कुत एतदिदं धात्रा नाशयासूत्रितं हि नः ॥
कान्यथा निशि वेतालः क च भीमपराक्रमः । क शशाङ्कवतीज्ञानं तत्संवादप्रसन्नतः॥
तां च प्राप्तमयोध्यायाः क चास्माकं विनिर्गमः । विन्ध्याटव्यां क चान्योन्यवियोगो नागशापतः ॥
ततः कतिपयानां नः क्रमशः क च संगमः । क चाधुना वियोगोऽयमिष्टत्यागः पुनः सखे ॥
ते हि वृक्षेऽत्र भूतेन प्रस्तास्तैश्च विना मम । का शशाङ्कवती किं च जीवितं तदलं भ्रमैः ॥
इत्यूचिवाञ्शुचा सोऽत्र सरस्यात्मानमुज्झितुम् । मृगाकदत्त उत्तस्थौ धृतधौ वारयत्यपि ॥
तावद्गत्र गगनादुच्चचाराशरीरिणी । मा पुत्र साहसं कार्षीः सर्वे स्वन्तं हि भावि ते ॥
अस्मिन्गणपतिर्देवः स्वयं वसति पादपे । स च वसचिवैरेतैरद्याज्ञानद्विमानितः ॥
ते ह्यशुद्धा अनाचान्ता अक्षालितकराद्यः । क्षुधार्तास्तन्निवासेऽस्मिन्नारूढः फललिप्सवः ॥
ततः स्पृष्टेषु तेष्वत्र फलतामेव ते गताः । यचित्तास्तद्गतिं गच्छन्विति विग्नेशशपतः ॥
अन्येऽपि ये त्वत्सचिवाश्चत्वारस्ते पथामुना । आगता एवमेवास्मिन्नारूढाः फलतां गताः ॥
तस्मादाराधयैतं त्वं तपोभिर्गणनायकम् । एतत्प्रसादात्सर्वेष्टसिद्धिस्तव भविष्यति ॥
इत्युक्तः स सुधासारसृजेवाकाशतो गिरा । मृगाङ्कदत्तो जातास्थो देहत्यागाभ्यवर्तत ॥
कृत्वा च सरसि स्नानं तरौ तस्मिन्गणाधिपम् । अर्चयित्वोज्झिताहारस्त मस्तौषीत्कृताञ्जलिः ॥
               जय निजताण्डवडम्बरमर्दभरन्यश्चितेन भुवनेन ।
               समहीशैलवनेन प्रणम्यमानेश गजवदन ॥
               जय ससुरासुरमानुषभुवनत्रयपूजिताह्निकमलयुग ।
               वरविविधसिद्धिनिर्भरनिधान कुम्भोपमाकार ॥
               जय युगपदुदितचण्डद्वादशदिनकृत्प्रदीप्ततेजस्क ।
               हरहरिसुरपतिदुर्जयदितिजकुलाकालकल्पान्त ॥
               जय भक्तवृजिनवारण लीलानीराजनोल्मुकेनेव ।
               परशुवरेण विराजितकरतलकलितानलज्वाल ॥