पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२०
[ आदितस्तरङ्गः
कथासरित्सागरः ।

अन्यूना हि वयं तस्मकुलेनार्थेन कर्मणा । तं वेष्टयहं स मां वेत्ति तेनैतन्मे न दुष्करम् ॥
इत्याश्वास्य स तं पुत्रमाहारादौ प्रवर्य च । तद्युक्तो विमलोऽन्येद्युर्ययौ युद्धपटास्पदम् ॥
ययाचे चात्र पुत्रस्य तस्याथै धवलस्य सः । कन्यां तस्मात्स चास्मै प्रतिशुश्राव सादरम् ॥
तां
लग्नं निश्चित्य चान्येद्युस्तां स शुद्धपटः सुताम् । धवळाय ददौ तस्मै तुल्यां मनसुन्दरीम् ॥
कृतोद्वाहश्च स तया साकं दर्शनस क्तया । भार्यया स्वपितुर्गेहं जगाम धघलछूती ॥
सुखस्थितस्य तस्याथ कदाचिच्छशुरात्मजः । तस्या मनसुन्दर्या भ्राता क्षत्रागतोऽभवत् ॥
स कुतप्रश्रयः सर्वैः स्वनालिज्याभिनन्दितः । संषन्धिपृष्टकुशलो विश्रान्तश्च जगाद तान् ॥
अहं मनसुन्दौ जामातुश्च निमव्रणे । तातेन प्रेषितो यस्माद्देवीपूज़ोस वोऽस्ति न ॥
श्रद्धय चैतत्तद्वाक्यं यथाहैः पानभोजनैः। से संबन्ध्यादयः सर्वे तदहस्तमुपाचरन् ॥
प्रातर्मदनसुन्दर्यां श्वशुरेण च तेन सः । सहितो धवलः प्रायाद्रुहं तच्छुश्चरं ॥
प्राप्य शोभावतीं तां च पुरीमात्मतृतीयकः निकटं प्राप्य गौर्यायतनं महत् ॥
। ददर्श स ।
निजगाद च तौ भार्याश्वशुर्यो अद्धया ततः । एतमेतां भगवतीं पश्यामो' देवतामिह ॥
तच्छुत्वा स श्वशुर्यन्तं निषेधप्रत्यभाषत । इयन्तो रिक्तहस्ताः किं पश्यामो देबतामिति ॥
अहं तावद्रजाम्येको युवाभत्रैव तिष्टतम् । इत्युक्त्वा धवलो द्रष्टुं देवीं त स ततो ययौ ॥
प्रविश्यायतनं तस्याः प्रणम्य च विभाव्य च । तामष्टादशदोर्दण्डखण्डितोचण्ड नवाम् ॥
पापद्मताक्षिप्तमहिषासुरमर्दिनीम् । स विधिप्रेरणोत्पन्नबुद्धिरेवमचिन्तयत् ॥
जीवोपहरैर्विविधैरिमां देवीं जनोऽर्चति । अहं तु सिद्ध्यै किं नैतां प्रणम्यात्मोपहारतः ॥
इति ध्यात्वैव तद्भर्भगृहृदय निर्जनात् । खङ्गं सांयात्रिकैः कैश्चिद्देव्यः प्राक्प्राभृतीकृतम् ॥
बह्वा शिरोरुहैर्घण्टाष्टदलायां निजं शिरः । चिच्छेदैतेन खजेन तच्छिन्नं चापतद्भुवि ॥
चिरं यावत्स नायाति तावद्वा तमीक्षितुम् । तत्रैव देवीभवने तच्छुशुयी विवेश सः ॥
tऽपि दृष्ट्वा तमुत्कृत्तमूर्धानं भगिनीपतिम् । व्यामोहितस्तथैव स्वं शिरस्लेनसिनादि ॥
सोऽपि यावच्च नायाति तावदुद्धान्तमानसा । तद्देवीभवनं सापि ययौ मनसुन्दरी ॥
प्रविश्य चैव पतिं भ्रातरं च तथागतौ । हा किमेतद्धतास्मीति विलपन्यपतद्भुवि ॥
क्षणाच्चोत्थाय शोचन्ती तावकाण्डहतावुभौ । किं ममाप्यधुनानेन जीवितेनेत्यचिन्तयत् ॥
व्यजिज्ञपच्च देवीं तां देहत्यागोन्मुखी सती । देवि सौभाग्यचरित्रविधानैकाधिदेवते ॥
अध्यासितशरीराचें भर्तृमररिपोरपि । अशेषललनालोकशरण्ये दुःखहारिणि ॥
हृतावेकपदे कस्माद्भर्ता भ्राता च मे त्वया । न युक्तमेतन्मयि ते नित्यभक्ता ह्यहं त्वयि ॥
तन्मे श्रितायाः शरणं शृण्वेकं कृपणं वचः । एतां तावत्त्यजाम्यत्र दौग्योपहतां तनुम् ॥
जनिष्ये देवि भूयस्तु यत्र कुत्रापि जन्मनि । तत्रैतावेव भूयास्तां द्वौ भनैं भ्रातरौ मम ॥
इति संस्तुत्य विज्ञष्य देवीं नत्वा च तां पुनः । पाशं विरचयामास लतथrशोकपादपे ॥
तत्रार्पयति यावच्च पाशे कण्ठं वितत्य सा । तावत्तत्रोच्चारैवं भारती गगनाङ्गणात् ॥
मा कृथाः साहसं पुत्रि बालाया अपि तेऽभुना । सत्वोत्कर्षेण तुष्टास्मि च शमेतं परित्यज ॥
संश्लेषयू शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः। उत्तिष्ठतां ते जीवन्तावेतौ द्वावपि सङ्करात् ॥
एतच्छुत्वैव संत्यज्य पाशं हृषीदुपेत्य सा । अविभाव्यातिरभसाङ्गान्ता मदनसुन्दरी ॥
बाळ भर्तुशिरो भ्रातृदेहेन समयोजयत् । भर्तृदेहेन च भ्रातृशिरो विधि नियोगतः ॥
सतोऽक्षताङ्गौ जीवन्तावुभावुत्तस्थतुश्च तौ । शिरोविनिमयाजातसंकरौ काययोर्मिथः ॥
अथान्योन्योतिस्वस्वयथावृत्तान्तततोषिणः । प्रणम्य देवीं शर्वाणीं यथेष्टं ते ययुस्त्रयः ॥
यान्ती च दृष्ट्वा स्वकृतं शिरोविनिमयं तयोः । विना किंकार्यतामूढा साभून्मनसुन्दरी ॥
तटूहि शजन्को भर्ता तस्याः संकीर्णयोस्तयोः। पूर्वोक्तः स्यात्स शपते जनानो न श्रवीषि चेत् ॥