पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०२
[ आदि
कथासरित्सागरः ।

तच्छुत्वा सह मित्रैस्तैर्गतो भीमभटोऽत्र सः। अपश्यच्छद्दत्तं तं मित्रं मत्स्याद्विनिर्गतम् ॥
समाश्लिषच्च धावित्वा सिञ्चन्धाराश्रुभिः स तम् मीनोदरदरीवासविघं। प्रक्षालयन्निव ॥
सोऽपि तद्विपदुत्तीर्णः प्राप्य तं परिरभ्य च । सुहृद शब्दोंऽगादुत्सवादुत्सवं तदा ॥
ततो भीमभटेनात्र तेन पृष्टः स कौतुकात् । शब्दतः स्ववृत्तान्तं संक्षेपादेवमब्रवीत् ॥
तदा गङ्गोर्मिवेगेन हृतस्त्वदृष्टिगोचरात् । अशङ्कितं निगीर्योऽस्मि मत्स्येनातिमहीयसा ॥
तस्योदरमहावेश्मप्रविष्टोऽहं । अतिष्ठं छुरिकोत्कृत्तं तन्मांसं भक्षयन्क्षुधाततश्चिरम् ॥
अद्य सोऽयमिहानीय धात्रा क्षिप्तः कथंचन ।मदस्य हतो जनैरेभिः कृष्टश्चास्योदरादहम् ॥
दृष्टो मया त्वम्र्कध्र प्रकाशं मे गता दिशः। एष मे मित्र वृत्तान्तं वेखि नाहमतः परम् ॥
इत्युक्तः शङ्कदत्तेन तेन भीमभटश्च सः । अन्ये च सर्वे तत्रस्था विस्मयादेवमब्रुवन् ॥
क गङ्गयां निगरणं मत्स्येनाब्धौ क तद्वतिः। क च तद्वर्मना तस्य विपाशायां निवेशनम् ॥
के वधस्तस्य तस्माच्च जीवतः यस्य निर्गमः। अहो विधेरचिन्यैव गतिरद्भुतकर्मणः ॥
इत्यादि तैः सह वदन्नक्षक्षपणकादिभिः । अनयच्छज्ञदत्तं स धाम भीमभटो निजम् ॥
तत्र चोपाचरत्ननवयौस्तं स सोत्सवः । तेनैव वपुषा जातमिव मत्स्योदरात्पुनः ॥
ततस्तेन समं देशे तस्मिन्भीमभटे स्थिते ।आगाद्यात्रोत्सवस्तत्र नागराजस्य वासुकेः ॥
तद्दर्शनाय स प्रायाद्राजपुत्रः सुहृतः । मिलन्महाजनं तस्य नागमुख्यस्य केतनम् ॥
तत्र प्रणम्य तन्मूर्ति प्रासादे माल्यदामभिः । भूते भोगिगणाकारैः पातालोदकसंनिभे ॥
गत्वा दक्षिणतोऽपश्यन्महान्तं तस्य स हदम् । फणारत्नप्रभापुजैरिव रक्ताम्बुजैश्चितम् ॥
विषाग्निधूमपटलैरिव नीलोत्पलैर्युतम् । वृतं वातपतत्पुष्पैरर्चद्भिरिब पादपैः ॥
स्वल्पः समुद्रोऽमुद्रस्य पुरोऽस्य प्रतिभाति मे । अनन्यहरिश्रीकस्य हृतमीकः स शैौरिण ॥
इति यावच्च तं दृष्ट्वा स चिन्तयति विस्मितः । तावत्नानार्थमायातामद्राक्षीत्तत्र कन्यका ॥
राज्ञो लाटेश्वरस्यात्र चन्द्रादित्यस्य पुत्रिकाम् । जातां कुवलयावल्यां नाम्ना हंसावलीं शु ॥
अद्वैरपहृतोऽप्यन्यैर्यस्या दिव्यानुकारिभिः । चक्षुषा चपलेनोक्तो मर्यभावो निमेषतः ॥
सा पुष्पपेलववपुष्कोटिप्राप्तस्फुरद्रुणा । मुष्टिग्राहेण मध्येन मान्मथीव धनुर्हता ॥
दृढूय तिर्यग्वलितैरपि लोचनसायकैः। अमोहयीमभटं हृदि निर्भिद्य तं तदा ॥
सोऽपि तस्याः प्रविश्यैव तिर्यङ् नयनवर्मना। हृत्कोषमहरवैर्यं जगत्सैौन्दर्यतस्करः ॥
ततो गुप्तविसृष्टाप्तचेटीमुखेन सा। अन्विष्यति स्म मित्रेभ्यस्तस्य नामास्पदादिकम् ॥
अथागात्सा परिजनैर्नायमाना स्वमन्दिरम् । स्नाता विवर्ततमुखी सुहुस्तद्गतया दृशा ॥
ततो भीमभटः सोऽपि स्ववासं सखिभिः सह । प्रत्यागात्तत्प्रियाप्रेमपाशबन्धस्खलद्रुतिः ॥
तत्र तस्मै क्षाणाडूतीं तां चेटीं राजकन्यका । हंसावली सा व्यसृजद्दवा संदेशमीसित ॥
साभ्युपेत्य तमाह स्म चेटी भीमभटं रहः । देव हंसावली राजसुता त्वामनुनाथति ॥
ह्रियमाणं स्मरौघेण दृष्ट्वा प्रणयिनं जनम् । इमं द्रुतमनादृत्य न युक्ता ते तटस्थता ॥
इति संप्राप्य दूतीतो दयितावचनामृतम् । लब्धजीवितहृष्टस्तां सोऽथ भीमभटोऽब्रवीत् ॥
ओघथो न तटस्थोऽहमिति वेति न किं प्रिया । तदृचस्तु करिष्यामि कामं लब्धावलम् ॥
एय संभावयिष्यामि नक्तमन्तःपुरेऽद्य ताम् । विद्याछन्नं विशन्तं च नहि द्रक्ष्यति कोs ॥
इत्युक्ता तेन चेटी सा तुष्टा गत्वा शशंस तत् । हंसावल्यै ततः सापि तस्थौ तसंगमो ॥
सोऽपि प्रदोषसमये दिव्याभरणभूषितः । गङ्गवितीर्णविद्याया आनुलोम्येन पठतः ॥
अदृश्यीभूय गत्वा तत्तस्या अन्तःपुरोत्तमम्। समाविशीमभट: प्रविविक्तीत तया ॥
कामोद्याननिभे कान्तां तां बहद्दिव्यसैौरभाम् । सोऽपश्यद्भाङ्गसद्विद्यावलीप्रसवसंनिभ ॥